नर्त्तकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नर्त्तकः, पुं, (नृत्यतीति । नृत् + “शिल्पिनि ष्वुन् ।” ३ । १ । १४५ । इति ष्वुन् ।) नटः । पोट- गलः । चारणः । केलकः । नटपर्य्यायः । सर्व्व- वेशी २ लयालम्बः ३ तालरेचनकः । इति शब्दरत्नावली ॥ द्विपः । इति हेमचन्द्रः ॥ नृत्यकर्त्तुर्लक्षणं यथा, -- “यादृशं नृत्यपात्रं स्याद्गीतं योज्यञ्च तादृशम् । नृत्यस्य धारणात् पात्रं नर्त्तकः परिकीर्त्तितः ॥” अपि च । “असम्बद्धप्रलापी च सदा भ्रूकुटितत्परः । हासप्रहासचतुरो वाचालो नृत्यकोविदः ॥” इति सङ्गीतदामोदरः ॥ (नर्त्तयतीति । नृत् + णिच् + ण्वुल् । नृत्यकारके, त्रि । यथा, साहित्यदर्पणे ३ परिच्छेदे । “तर्को विचारः सन्देहात् भ्रूशिरोऽङ्गुलि- नर्त्तकः ॥”)
