नर्म्म
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नर्म्म, [न्] क्ली, (नॄ नये + “सर्व्वधातुभ्यो मनिन् ।” उणां ४ । १४६ । इति मनिन् ।) परीहासः । इत्यमरः । १ । ७ । ३२ ॥ (यथा, महाभारते । १ । ८२ । १७ । “न नर्म्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्व्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नर्म्म¦ पु॰ नॄ--मन्। पुरुषमेधीयालभ्यपशूद्देश्ये देवभेदे
“नर्मायरेभम्” यजु॰
३० ।
६
“नर्माय पुंश्चलूम्”
३० ।
२