नर्म्मद
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नर्म्मदः, पुं, (नर्म्म ददातीति । दा + कः ।) केलि- सचिवः । इति मेदिनी । दे, ३३ ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नर्म्मद¦ त्रि॰ नर्भ ददाति दा--क
६ त॰।
१ केलिसचिवे मेदि॰।
२ पृक्वायां हेमच॰।
३ नदीभेदे स्त्री मेदि॰। सा च नदीकलिङ्गदेशस्य पश्चाद्देशे स्थिता अमरकण्टकपर्वतसन्निकृष्टायथाह मत्स्यपु॰
१८
५ अध्यायावधि
१९
० अ॰ पर्यन्तेतत्कथा दिङ्मात्रमत्र दर्श्यते।
“मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा सर्वपापप्रणा-शिनी। तारयेत् सर्वभूतानि स्थावराणि चराणि च। नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम्। तदे-तद्धि महाराज! तत्सर्वं कथयामि ते। पुण्या कनखलेगङ्गा कुरुक्षेत्रे सरस्वती। ग्रामे वा यदि वाऽरण्येपुण्या सर्वत्र नर्मदा। त्रिभिः सारस्वतं तोयं सप्ताहेनतु यामुनम्। सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्म-दम्। कलिङ्गदेशे पश्चार्द्धे पर्वतेऽमरकण्टके। पुण्ये[Page3980-a+ 38] च त्रिषु लोकेषु रमणीया मनोरमा। सदेवासुरगन्धर्वाऋषयश्च तपोधनाः। तपस्तप्त्वा महाराज! सिद्धिञ्चपरमाङ्गताः। तत्र स्नात्वा नरो राजन्नियमस्थो जिते-न्द्रियः। उपोष्य रजनीमेकां कुलानां तारयेच्छतम्। जलेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि। पितर-स्तस्य तृप्यन्ति यावदाभूतसंप्लवम्। पर्वतस्य समन्तात्तुरुद्रकोटिः प्रतिष्ठिता। स्नात्वा यः कुरुते चार्चां गन्ध-माल्यानुलेपनैः। प्रीतस्तस्य भवेच्छर्वो रुद्रकोटिर्न सं-शयः। पश्चिमे पर्वतस्यान्ते स्वयं देवी महेश्वरः। तत्रस्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः। पितृकार्यञ्चकुर्वीत विधिवन्नियतेन्द्रियः। तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः। आसप्तमं कुलं तस्य स्वर्गे मोदेत पाण्डव!। षष्टिर्वर्षसहस्राणि स्वर्गलोके महीयते। अप्सरोगण-संकीर्णे सिद्धचारणसेविते। दिव्यगन्धानुलिप्तश्च दिव्या-लङ्कारभूषितः। ततः स्वर्गात्परिभ्रष्टो जायते विपुलेकुले। धनवान् दानशीलश्च धार्मिकश्चैव जायते। पुनःणरति तत्तीर्थं गमनं तत्र रोचते। कुलानि तारयेत्सप्त रुद्रलोकं स गच्छति। योजनानां शतं साग्रं श्रू-यते सरिदुत्तमा। विस्तारेख तु राजेन्द्र! योजनद्वय-मायता। षष्टिस्तीर्घसहस्राणि षधिः कोञ्चस्तथैव च। सर्वं तस्य समन्तात्तु तिष्ठतेऽमरकण्टके”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नर्म्मद¦ mfn. (-दः-दा-दं) Delighting, making happy, giving pleasure. m. (-दः) The associate or companion of a person's sports or amuse- ments. f. (-दा)
1. The Narmada4 river, which rising in the Vind'hya4 mountains, runs westward to the gulf of Cambay.
2. A plant: see पृक्का। E. नर्म्म pleasure, and द what gives. नर्म ददाति दा-क ६ त० स० |
