सामग्री पर जाएँ

नर्म्मदा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नर्म्मदा, स्त्री, (नर्म्म ददातीति । दा + कः । स्त्रियां टाप् ।) पृक्का । इति हेमचन्द्रः । ४ । १४९ ॥ नदीविशेषः । सा विन्ध्यपर्व्वतान्निःसृता पश्चिमे तमसानद्यां प्रविष्टा । तस्याः पर्य्यायः । रेवा २ मेकलकन्या ३ सोमसुता ४ । अस्या जलगुणाः । लघुत्वम् । शीतलत्वम् । सुपथ्यत्वम् । दाह- पित्तशमनत्वम् । वातदातृत्वञ्च । इति राज- निर्घण्टः ॥ * ॥ तस्या जलं दशभिर्म्मासैर्जीर्य्यति । यथा, -- “त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् । नार्म्मदं दशभिर्म्मासैर्गाङ्गं वर्षेण जीर्य्यति ॥” इति प्रायश्चित्ततत्त्वम् ॥ तस्या उत्पत्तिमाहात्म्ये यथा, -- “नर्म्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता । तारयेत् सर्व्वभूतानि स्थावराणि चराणि च ॥ सर्व्वपापहरा नित्यं सर्व्वदेवनमस्कृता । संस्तुता देवगन्धर्व्वैरप्सरोभिस्तथैव च ॥” * ॥ तस्याः स्तवो यथा, -- “नमः पुण्यजले ! आद्ये ! नमः सागरगामिनि ! । नमस्ते पापशमनि ! नमो देवि ! वरानने ! ॥ नमोऽस्तु ते ऋषिगणसंघसेविते ! नमोऽस्तु ते शङ्करदेहनिःसृते ! । नमोऽस्तु ते धर्म्मभृतां वरप्रदे ! नमोऽस्तु ते सर्व्वपवित्रपावने ! ॥ यस्त्विदं पठते स्तोत्रं नित्यं शुद्धमना नरः । ब्राह्मणो वेदमाप्नोति क्षत्त्रियो विजयी भवेत् ॥ वैश्यस्तु लभते लाभं शूद्रश्चैव शुभां गतिम् । अन्नार्थी लभते ह्यन्नं स्मरणादेव नित्यशः ॥ नर्म्मदां सेवते नित्यं स्वयन्देवो महेश्वरः । तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ नर्म्मदाया जलं पीत्वा अर्च्चयित्वा वृषध्वजम् । दुर्गतिञ्च न पश्यन्ति तस्य तीर्थप्रभावतः ॥ एतत्तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् । सर्व्वपापविशुद्धात्मा व्रजते रुद्रमन्दिरम् ॥ जलप्रवेशं यः कुर्य्यात् तस्मिंस्तीर्थे नराधिप ! । हंसयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ यावच्चन्द्रश्च सूर्य्यश्च हिमवांश्च महोदधिः । गङ्गाद्याः सरितो यावत्तावत् स्वर्गे महीयते ॥ अनशनन्तु यः कुर्य्यात्तस्मिंस्तीर्थे नराधिप ! । गर्भवासे तु राजेन्द्र ! न पुनर्जायते नरः ॥” इति मात्स्ये १६५ । १६९ अध्यायौ ॥ सा च पुरुकुत्सभार्य्या । तस्याः स्मरणे विषनाशो भवति । यथा, “सकलपन्नगपतयश्च नर्म्मदायै वरं ददुः । यस्तेऽनुस्मरणसमवेतं नाम- ग्रहणं करिष्यति न तस्य सर्पविषं भविष्यतीति । अत्र च । “नर्म्मदायै नमः प्रातनर्म्मदायै नमो निशि । नमोऽस्तु नर्म्मदे तुभ्यं त्राहि मां विषसर्पतः ॥” इति विष्णुपुराणे । ४ । ३ । ९ -- १० ॥

"https://sa.wiktionary.org/w/index.php?title=नर्म्मदा&oldid=143565" इत्यस्माद् प्रतिप्राप्तम्