नलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नलः, पुं, (नल बन्धे + पचाद्यच् ।) तृणविशेषः । तत्पर्य्यायः । धमनः २ पोटगलः ३ । इत्यमरः । २ । ४ । १६२ ॥ नालः ४ नडः ५ कुक्षिरन्ध्रः ६ कीचकः ७ दीर्घवंशः ८ शून्यमध्यः ९ विभीषणः १० छिद्रान्तः ११ मृदुपत्रः १२ वंशपत्रः १३ मृदुच्छदः १४ नालवंशः १५ । अस्य गुणाः । शीतत्वम् । कषायत्वम् । मधुरत्वम् । रुचिकारि- त्वम् । रक्तपित्तप्रशमनत्वम् । दीपनत्वम् । वीर्य्य- वृद्धिदत्वञ्च । इति राजनिर्घण्टः ॥ तन्नामगुणाः । “नलः पोटगलः शून्यमध्यश्च धमनस्तथा । नलस्तु मधुरस्तिक्तः कषायः कफरक्तजित् ॥ उष्णो हृद्बस्तियोन्यर्त्तिदाहपित्तविसर्पहृत् ॥” इति भावप्रकाशः ॥ सूर्य्यवंशीयनिषधराजपुत्त्रः । यथा, -- “अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः । नलस्तु नैषधस्तस्मान्नभस्तस्मादजायत ॥” वीरसेनराजपुत्त्रः । यथा, मात्स्ये १२ अध्याये । “नलौ द्बावेव विख्यातौ वंशे कश्यपसम्भवे । वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः ॥” (तथा, हरिवंशे । १५ । ३४ । “नलौ द्ववेव विख्यातौ पुराणे भरतर्षभ ! । वीरसेनात्मजश्चैव यश्चैक्ष्वाकुकुलोद्बहः ॥” एतौ द्वावेव सूर्य्यवंशीयौ ॥) चन्द्रवंशीयनिषध- राजपुत्त्रः । (अयन्तु दमयन्तीपतिः ।) यथा, दमयन्तीं प्रति नलवाक्यम् । “सुधांशुवंशस्य करीरमेव मां निशम्य किन्नासि फलेग्रहि ग्रहा ॥” इति नैषधः ॥ सेतुं बबन्ध । यथा, अध्यात्मरामायणे । ६ । ३ । ८४ -- ८६ । “ततोऽब्रवीत् रघुश्रेष्ठं सागरो विनयान्वितः । नलः सेतुं करोत्यस्मिन् जले मे विश्वकर्म्मणः ॥ सुतो धीमान् समर्थोऽस्मिन् कार्य्ये लब्धवरो हरिः । कीर्त्तिं जानन्तु ते लोकाः सर्व्वलोकमलापहाम् ॥ इत्युक्त्रा राघवं नत्वा ययौ सिन्धुरदृश्यताम् । ततो रामस्तु सुग्रीवलक्ष्मणाभ्यां समन्वितः । नलमाज्ञापयच्छीघ्रं वानरैः सेतुबन्धने ॥”) पितृदेवः । इति मेदिनी । ले, २७ ॥ दैत्य- विशेषः । यथा, -- “दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः । सैंहिकाया इति ख्यातास्त्रयोदश महाबलाः ॥ वंश्यः शल्यश्च बलवान् नलश्चैव तथा बलः । वातापिर्न्नमुचिश्चैव इल्वलः स्वसृमस्तथा ॥ अञ्जको नरकश्चैव कालनाभस्तथैव च । सवमानस्तथा चैव सुरकल्पश्च वीर्य्यवान् ॥” इति ब्रह्मपुराणे २ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नलः [nalḥ], 1 A kind of reed; Bhāg.1.6.13; एरण़्डभिण्डार्कनलैः प्रभूतैरपि संचितैः । दारुकृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥ Pt.1.96.
N. of a celebrated king of the Niṣadhas and hero of the poem called 'Naiṣadhacharita'. [Nala was a very noble-minded and virtuous king. He was chosen by Damayantī in spite of the opposition of gods, and they lived happily for some years. But Kaliwho was disappointed in securing her hand resolved to persecute Nala, and entered into his person. Thus affected he played at dice with his brother, and having lost everything, he, with his wife, was banished from the kingdom. One day, while wandering through the wilderness, he abandoned his wife, almost naked, and went away. Subsequently he was deformed by the serpent Karkoṭaka, and so deformed he entered the service of king Ṛituparṇa of Ayodhyā as a horse-groom under the name of Bāhuka. Subsequently with the assistance of the king he regained his beloved and they led a happy life; see ऋतुपर्ण and दमयन्ती also.]
N. of a monkey-chief, son of Viśvakarman, who, it is said, built the bridge of stones called Nalasetu or 'Adam's bridge' over which Rāma passed to Laṅkā with his army.
N. of a year (Nm.)
A measure of length (equal to 4 हस्तs); वेदीमष्टनलोत्सेधाम् Mb.7.7.16.
N. of divine being (पितृदेव).
लम् A blue lotus; नलनीलमूर्तेः Śrīkanthacharita 1.33.
Smell, odour. -Comp. -कीलः the knee. -कूब (व) रः N. of a son of Kubera. -तूला a variety of the hides of aquatic animals; Kau. A.2.11.
दम् a fragrant root (उशीर); Ki.12.5; N.4.116. कतकं नक्रनखरं नलदं नागकेसरम् Śiva. B.3.14.
the honey of a flower.
the flower of Hibiscus Rosa Sinensis (Mar. जास्वंद).-पट्टिका a sort of mat made of reeds. -मीनः a shrimp or prawn; Rām.3.73.14.
