सामग्री पर जाएँ

नलकूवर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नलकूवरः, पुं, कुवेरपुत्त्रः । इत्यमरः । १ । १ । ७३ ॥ (यथा, राजेन्द्रकर्णपूरे । ६९ । “विलोकनकथापि मे न नलकूवरे न स्मरे किमन्यदमृतद्युतेरपि न दर्शनं प्रार्थये । अयं नयनगोचरं व्रजति चेद्दृशामुत्सवः समग्ररमणीमनो मधुपमाधवः क्ष्माधवः ॥”) स भ्रात्रा मणिग्रीवेण सह वारुणीं पीत्वा कैलासोपवने गङ्गायां स्त्रीजनैः क्रीडितवान् । असंवृतवस्त्रौ तौ दृष्ट्वा नारदः शशाप । तच्छा- पेन तौ यमलार्ज्जुनौ भूत्वा श्रीवृन्दावने आसतुः । ततो दामोदरेण शापनिर्म्मुक्तौ तं नुत्वा स्वगृहं जग्मतुः । इति श्रीभागवतीयदशमस्कन्धः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नलकूवर¦ पु॰ कुवेरपुत्रे
“यक्षराज्ञा कुवेरेण वरा लब्धाश्चपुष्कलाः। धनाधिपत्यं सख्यञ्च रुद्रेणामिततेजसा। सुरत्वं लोकपालत्वं पुत्रञ्च नलकूवरम्” भा॰ श॰

४८ अ॰। स च नारदशापेन व्रजे स्थावरतां प्राप्तः कृष्णेन पुन-र्देवत्वमासादितः। तत्कथा भाग॰

१० स्कन्धे यथा
“कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः। अद्रा-क्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ”।
“पुरानारदशापेनवृक्षतां प्रापितौ मदात्। नलकूवरमणिग्रीवावितिख्यातौ श्रियान्वितौ”

९ अ॰
“रुद्रस्यानुचरौ भूत्वा सु-दृप्तौ धनदात्मजौ। कैलासोपवने रम्ये मन्दाकिन्यांमदोत्कटौ। वारुणीं मदिरां पीत्वा मदाघूर्णितलो-चनौ। स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने। अन्तःप्रविश्य गङ्गायामम्भोजवनराजिषु। चिक्रीडतुर्युवति-भिर्गजाविव करेणुभिः। यदृच्छया च देवर्षिर्भगवांस्तत्रकौरव!। अपश्यन्नारदो देवौ क्षीवाणौ समबुद्ध्यत। तं दृष्ट्वा व्रीडिता देव्यो विवस्त्रा शापशङ्किताः। वासांसिपर्य्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ”
“यदिमौ लोकपा-लस्य सुतौ भूत्वा तमःप्लुतौ। न विवाससमात्मानंविजानीतः सुदुर्मदौ। अत इतः स्थावरतां स्यातां नैवंयथा पुनः। स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनु-ग्रहात्। वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते। वृत्ते स्वर्ल्लोकतां भूयो लब्धभक्ती भविष्यतः”

१० अ॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नलकूवर¦ m. (-रः) The son of KUVE4RA. E. नल a reed, कूवर a carriage yoke.

"https://sa.wiktionary.org/w/index.php?title=नलकूवर&oldid=345070" इत्यस्माद् प्रतिप्राप्तम्