सामग्री पर जाएँ

नलकूवरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नलकूवरः, पुं, कुवेरपुत्त्रः । इत्यमरः । १ । १ । ७३ ॥ (यथा, राजेन्द्रकर्णपूरे । ६९ । “विलोकनकथापि मे न नलकूवरे न स्मरे किमन्यदमृतद्युतेरपि न दर्शनं प्रार्थये । अयं नयनगोचरं व्रजति चेद्दृशामुत्सवः समग्ररमणीमनो मधुपमाधवः क्ष्माधवः ॥”) स भ्रात्रा मणिग्रीवेण सह वारुणीं पीत्वा कैलासोपवने गङ्गायां स्त्रीजनैः क्रीडितवान् । असंवृतवस्त्रौ तौ दृष्ट्वा नारदः शशाप । तच्छा- पेन तौ यमलार्ज्जुनौ भूत्वा श्रीवृन्दावने आसतुः । ततो दामोदरेण शापनिर्म्मुक्तौ तं नुत्वा स्वगृहं जग्मतुः । इति श्रीभागवतीयदशमस्कन्धः ॥

"https://sa.wiktionary.org/w/index.php?title=नलकूवरः&oldid=143575" इत्यस्माद् प्रतिप्राप्तम्