नलिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिका, स्त्री, (नल इव आकारोऽस्त्यस्या इति । नल + ठन् ।) नाडी । नली इति ख्यातः । सा च उत्तरापथे प्रसिद्धा सुगन्धा प्रवाला- कृतिः प्रवालीति क्वचित् प्रसिद्धा । प~ठारी इति क्वचित् प्रसिद्धा । तत्पर्य्यायः । विद्रुम- लतिका २ कपोतषाणा ३ नलिनी ४ निर्म्मथ्या ५ शुषिरा ६ आध्मानी ७ स्तुत्या ८ रक्तदला ९ नर्त्तकी १० नटी ११ । अस्या गुणाः । तिक्त- त्वम् । कटुत्वम् । तीक्ष्णत्वम् । मधुरत्वम् । कृमिवातोदरार्त्त्यर्शःशूलनाशित्वम् । मलशोध- नत्वञ्च । इति राजनिर्घण्टः ॥ तन्नामगुणाः । “नलिका विद्रुमलता कपोतचरणा नटी । धमन्यञ्जनकेशी च निर्म्मध्या शुषिरा नली ॥ नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् । कृच्छ्राश्मवाततृष्णास्रकुष्ठकण्डुज्वरापहा ॥” इति भावप्रकाशः ॥ (अस्त्रविशेषः । यथा, आर्य्यासप्तशत्याम् । ४३७ । “मधुमथनवदनविनिहितवंशीसुषिरानुसारिणो रागाः । हन्त हरन्ति मनो मम नलिकाविशिखाः स्मर- स्येव ॥” इयं हि आकृतिक्रियादिना आधुनिकनला- स्त्रस्य ‘वन्दुक’ इति ख्यातस्य सादृश्यं गच्छति । यथा, वैशम्पायनोक्तधनुर्व्वेदे । “नलिका ऋजुदेहा स्यात्तन्वङ्गी मध्यरन्ध्रिका । मर्म्मच्छेदकरी नीला -- ॥” “ग्रहणं ध्मापनञ्चैव स्यूतञ्चेति गतित्रयम् । तामाश्रितं विदित्वा तु जेतासन्नान् रिपून् युधि ॥” अस्या विशेषविवरणन्तु नालिकशब्दे द्रष्टव्यम् ॥ कल्पितजलनिर्गमपथः । यथा, यन्त्रविधि- शतके १ अध्याये । “वेदाङ्गुलं मस्तकोर्द्धं कार्य्यं तोयस्य धारणे । समर्थां तत्र नलिकां कुर्य्यात्तोयविमोचनीम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिका¦ स्त्री नलः तद्रूपाकारोऽस्त्यस्याः ठन्।

१ नाड्यां (नली)इति ख्याते सुगन्धिद्रव्यभेदे उत्तरपथप्रसिद्धे (पं ठारी)प्रसिद्धे प्रबालाकृतौ

२ वृक्षभेदे च
“नलिका विद्रुमलता-कपोतचरणा नटी। धमन्यङ्गतकेशी च निर्मध्याशुषिरा नली। नलिका शीतला लघ्वी चक्षुष्या कफ-पित्तहृत्। कृच्छ्राश्मरीवाततृष्णास्रकुष्ठकण्डुज्वरापहा” भावप्र॰।
“काशाः कुशा वा नलिका नलो वा” वृ॰ सं॰

५४ अ॰। दकार्गलशब्दे दृश्यम्। तन्तवायानां वयनसाधने

३ द्रव्यभेदे (नली)

४ तदाकारे अस्त्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिका¦ f. (-का) A perfume: see नली। E. नली, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिका [nalikā], 1 A tube.

A tubular organ of the body (नाडी).

A quiver.

A kind of fragrant substance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिका f. a tube or tubular organ of the body(= नाडी) L.

नलिका f. a quiver Naish.

नलिका f. Dolichos Lablab Var.

नलिका f. Polianthes Tuberosa or Daemia Extensa L.

नलिका f. a kind of fragrant substance L.

"https://sa.wiktionary.org/w/index.php?title=नलिका&oldid=500567" इत्यस्माद् प्रतिप्राप्तम्