नवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नवः, पुं, (नु शि स्तवने + “ऋदोरप् ।” ३ । ३ । ५७ । इति भावे अप् ।) स्तवः । इति मेदिनी । वे, १५ ॥ रक्तपुनर्नवा । इति राजनिर्घण्टः ॥
नवः, त्रि, (नूयते स्तूयते इति । नु स्तुतौ + “ऋदो- रप् ।” ३ । ३ । ५७ । इति अप् ।) नूतनः । इत्यमरः । ३ । १ । ७७ ॥ (यथा, हितोपदेशे । १ । २३४ । “न स्त्रीणामप्रियः कश्चित् प्रियो वापि न विद्यते । गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥”) अभिनवान्यौषधानि प्रशस्तानि । यथा, -- “द्रव्याण्यभिनवान्येन प्रशस्तानि क्रियाविधौ । ऋते घृतगुडक्षौद्रधान्यकृष्णाविडङ्गतः ॥” इति नारायणदासकृतवैद्यपरिभाषा ॥ तद्वैदिकपर्य्यायः । “नवम् १ नूतम् २ नूतनम् ३ नव्यम् ४ इदा ५ इदानीम् ६ । षट् नवनामानि ।” इति वेदनिघण्टौ ३ व्यध्यायः ॥
