नवग्रहाः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नवग्रहाः, पुं, (नव ग्रहाः ।) सूर्य्यादयो नव । यथा, तिथितत्त्वे । “नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् । अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥” (यथा च, -- “सूर्य्यश्चन्द्रो मङ्गलश्च बुधश्चापि बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति नवग्रहाः ॥”) तेषां संस्थानम् । यथा, -- “भूमेर्योजनलक्षे तु सौरं मैत्रेय ! मण्डलम् । लक्षे दिवाकरस्यापि मण्डलं शशिनः स्थितम् ॥ पूर्णे शतसहस्रे तु योजनानां निशाकरात् ।
