सामग्री पर जाएँ

नवनीतधेनुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नवनीतधेनुः, स्त्री, (नवनीतेन कृता धेनुः । मध्यपदलोपिकर्म्मधारयः ।) दानार्थकृतनव- नीतमयधेनुविशेषः । यथा, -- “नबनीतमयीं धेनुं शृणु राजन् ! प्रयत्नतः । यां श्रुत्वा सर्व्वपापेभ्यो मुच्यते नात्र संशयः ॥ गोमयेनानुलिप्तायां भूमौ गोचर्म्ममात्रतः । कृष्णचर्म्ममृगस्यैव तस्योपरि च धारयेत् ॥ कुम्भन्तु नवनीतस्य प्रस्थमात्रस्य धारयेत् । वत्सं चतुर्थभागस्य तस्या उत्तरतो न्यसेत् ॥ कृत्वा विधानेन च राजसिंह- सुवर्णशृङ्गी सुमुखी च कार्य्या । नेत्रे च तस्या मणिमौक्तिकैस्तु कृत्वा तथान्यच्च गुडेन जिह्वाम् ॥ ओष्ठौ च पुष्पैश्च फलैश्च दन्ताः प्रकल्प्य सास्नाञ्च सितैश्च सूत्रैः ॥ नवनीतस्तनीं राजन्निक्षुपादां प्रकल्पयेत् । ताम्रपृष्ठीं कांस्यदोहां दर्भरोमकृतच्छवीम् ॥ स्वर्णशृङ्गीं रौप्यखुराम् पञ्चरत्नसमन्विताम् । चतुर्भिस्तिलपात्रैस्तु संयुतां सर्व्वतो दिशः ॥ आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैरलङ्कृतम् । दिक्षु दीपांश्च प्रज्वाल्य ब्राह्मणाय निवेदयेत् ॥ वेदवेदाङ्गविदुषे आहिताग्निर्ज्जितात्मवान् । मन्त्रास्त एव जप्तव्याः सर्व्वधेनुषु ये स्मृताः ॥ पुरा देवासुरैः सर्व्वैः सागरस्य तु मन्थने । उत्पन्नं दिव्यममृतं नवनीतमिदं शुभम् ॥ आप्यायनञ्च भूतानां नवनीत ! नमोऽस्तु ते । एवमुच्चार्य्य तां दद्यात् ब्राह्मणाय कुटुम्बिने ॥ घेनुञ्च दत्त्वा सुमुदां सोपधानां नयेद्गृहं विप्रवर्य्यस्य भूयः । हविष्यमेव सरसञ्चोपभुक्त्वा तिष्ठेद्दिनं धेनुदस्त्रीणि विप्रः ॥ यः प्रपश्यति तां धेनुं दीयमानां नरोत्तम । सर्व्वपापविनिर्मुक्तः शिवसायुज्यतां व्रजेत् ॥ पितृभिः पूर्ब्बजैः सार्द्धं भविष्यद्भिश्च मानवः । विष्णुलोकं व्रजत्याशु यावदाहूतसंप्लवम् ॥ य इदं शृणुयाद्भक्त्या श्रावयेद्बापि मानवः । सर्व्वपापविशुद्धात्मा विष्णुलोके महीयते ॥” इति वराहपुराणम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--fit for gift during the विशोकद्वादशी- vrata. M. ८२. २१.

"https://sa.wiktionary.org/w/index.php?title=नवनीतधेनुः&oldid=431672" इत्यस्माद् प्रतिप्राप्तम्