नवरत्नम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नवरत्नम्, क्ली, (नवानां रत्नानां समाहारः ।) नवप्रकारमणयः । तद्यथा, -- “मुक्तामाणिक्यवैदूर्य्यगोमेदान् वज्रविद्रुमौ । पद्मरागं मरकतं नीलञ्चेति यथाक्रमात् ॥” इति तन्त्रसारः ॥ (यथा च, -- “वज्रञ्च मौक्तिकञ्चैव माणिक्यं नीलमेव च । तथा मरकतं ज्ञेयं महारत्नानि पञ्चधा ॥ गोमेदः पद्मरागञ्च वैदूर्य्यञ्च प्रवालकम् । चत्वारि उपरत्नानि नवरत्नमिदं स्मृतम् ॥” “रत्नं गारुत्मतं पुष्पं रागो माणिक्यमेव च । इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥ मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ॥ रत्नं हीरा । गारुत्मतं पान्ना । माणिक्यं पद्म- रागः । इन्द्रनीलः नीला ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) नवग्रहदोषशान्त्यै धार्य्याणि नव रत्नानि यथा, -- “वैदूर्य्यं धारयेत् सूर्य्ये नीलञ्च मृगलाञ्छने । आवनेयेऽपि माणिक्यं पद्मरागं शशाङ्कजे ॥ गुरौ मुक्तां भृगौ वज्रं शनौ नीलं विदुर्बुधाः । राहौ गोमेदकं धार्य्यं केतौ मरकतन्तथा ॥” इति दीपिका ॥ विक्रमादित्यराजसभास्थनवसंख्यकपण्डिताः । यथा, -- “धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टधटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥” इति नवरत्नम् ॥ नव श्लोकाः । यथा, -- “मित्रमर्थी तथा नीतिर्धर्म्मकार्पण्यमूर्खकाः । विद्बान् संसदि पाक्षिकः परवशो मानी दरिद्रो गृही वित्ताढ्यः कृपणः सुखी परवशो वृद्धो न तीर्थाश्रितः । राजा दुःसचिवः प्रियः कुलभवो मूर्खः पुमां- स्त्रीजितः वेदान्ती हतसत्क्रियः किमपरं हास्यास्पदं भूतले ॥ ८ ॥ उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वन् शिशून् वर्द्धयन् प्रोत्तुङ्गान् नमयन् नतान् समुदयन् विश्लेषयन् संहतान् । तीव्रान् कण्टकिनो बहिर्नियमयन् ग्लानान् मुद्दुः सेचयन् मालाकार इव प्रयोगनिपुणो राजा चिरं नन्दतु ॥ ९ ॥)
