नवरात्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नवरात्रम्, क्ली, (नवानां रात्रीणां समाहारः । तत् साधनत्वेनास्त्यस्येति अच् ।) आश्विनशुक्ल- प्रतिपदादिनवमीपर्य्यन्तनवदिनकर्त्तव्यदुर्गाव्रत- विशेषः । तस्यारम्भः । देवीपुराणे डामरतन्त्रे च देवीवचः । “अमायुक्ता न कर्त्तव्या प्रतिपत् पूजने मम । मुहूर्त्तमात्रा कर्त्तव्या द्वितीयादिगुणान्विता ॥” मार्कण्डेयदेवीपुराणयोः । “पूर्ब्बविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी । नवरात्रव्रतं तस्यां न कार्य्यं शुभमिच्छता ॥” अत्रोपवासादिकमुक्तं हेमाद्रौ भविष्ये । “एवञ्च विन्ध्यवासिन्यां नवरात्रोपवासतः । एकभक्तेन नक्तेन तथैवायाचितेन च ॥ पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे । स्नातैः समुदितैर्हृष्टैर्ब्राह्मणैः क्षत्त्रियैर्नृपैः ॥ वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लेच्छैरन्यैश्च मानवैः ॥” मदनरत्ने देवीपुराणेऽपि । “कन्यासंस्थे रवौ शक्र ! शुक्लामारभ्य नन्दिकाम् । अपाशी ह्यथवैकाशी नक्ताशी वाथ वाय्वदः ॥ भूमौ शयीत चामन्त्र्य कुमारीर्भोजयेन्मुदा । वस्त्रालङ्कारदानैश्च सन्तोष्याः प्रतिवासरम् ॥ बलिञ्च प्रत्यहं दद्यादोदनं मांसमाषवत् । त्रिकालं पूजयेद्देवीं जपस्तोत्रपरायणः ॥” स्कान्दे । “मासि चाश्वयुजे शुक्ले नवरात्रे विशेषतः । संपूज्य नवदुर्गाञ्च नक्तं कुर्य्यात् समाहितः ॥ नवरात्राभिधं कर्म्म नक्तव्रतमिदं स्मृतम् । तिथिवृद्ध्वौ तिथिह्रासे नवरात्रमपार्थकम् ॥ अष्टरात्रे न दोषोऽयं नवरात्रतिथिक्षयः ॥” * ॥ तत्र पूजाविधिः । सा च जयन्तीत्यादिमन्त्रेण नवाक्षरेण वा कार्य्या । यथा । सङ्कल्पं विधाय घटं संस्थाप्य तत्र देवीमावाह्य षोडशोपचारैः पूजयित्वा माषभक्तवलिं कुष्माण्डादिबलिं वा निवेदयेत् ॥ * ॥ ततः कुमारीपूजा । यदुक्तं हेमाद्रौ स्कान्दे । “एकैकां पूजयेत् कन्यामेकवृद्ध्या तथैव च । अथ बलनीराजनम् । कल्परत्ने । तत्र मन्त्रः । “चतुरङ्गं बलं मह्यं निरनिष्टं व्रजत्विह । सर्व्वत्र विजयो मेऽस्तु त्वत्प्रसादात् सुरेश्वरि ! ॥” गौडनिबन्धे ज्योतिषे । “कृत्वा नीराजनं राजा बलवृद्ध्यै यथाक्रमम् । शोभनं खञ्जनं पश्येत् जलगोष्ठस्य सन्निधौ ॥” इति निर्णयसिन्धुः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नवरात्र¦ त्रि॰ नवभिः रात्रिभिर्निर्वृत्तं तद्धितार्थे द्विगुः
“द्विगोर्लुगनपत्ये” तद्धितस्य ठको लुक् अच्समा॰। नवमीरात्रिभिस्तदुपलक्षितैर्दिनैर्वा निर्वृत्ते यागादौ
“नवरात्रा-श्चत्वारः” कात्या॰ श्रौ॰
४ ।
३ ।
१४
“नवरात्रे त्रिक्कुत्काः” कात्या॰ श्रौ॰
३५ ।
१३ । नवरात्रसाध्ये
२ व्रतभेदे तद्वि-धानकालनिर्णयादि नि॰ सि॰ उक्त यथा[Page3993-a+ 38]
“अथाश्विनशुक्लप्रतिपदि नवरात्रारम्भः। तन्निर्णयःभार्गवार्चनदीपिकायां देवीपुराणे सुमेधा उवाच
“शृणु राजन्! प्रवक्ष्यामि चण्डिकापूजनक्रमम्। आश्विनस्य सिते पक्षे प्रतिपत्सुशुभे दिने” इत्युपक्रम्यो-क्तम्।
“शुद्धे तिथौ प्रकर्त्तव्यं प्रतिपच्चोर्ध्वगामिनी। आद्यास्तु नाडिकास्त्यक्त्वा षोडश द्वादशापि वा। अप-राह्णे च कर्त्तव्यं शुद्धसन्ततिकाङ्क्षिभिः”। इदं चाप-राह्णयोगिन्याः प्राशख्यं द्वितीयदिने प्रतिपदोऽभावेज्ञेयम्। तथा च तत्रैव देवीपुराणे डामरतन्त्रे च देवीवचः
“अमायुक्ता न कर्त्तव्या प्रतिपत् पूजने मम। मुहूर्तमात्रा कर्तव्या द्वितीयादिगुणान्विता। आद्याःषोडश नाङीस्तु लब्ध्वा यः कुरुते नरः। कलश-स्थापने तत्र ह्यरिष्टं जायते ध्रुवम्”। मार्कण्डेयदेवीपुराणयोः
“पूर्वविद्धा तु या शुक्ला भवेत् प्रतिपदा-श्विनी। नवरात्रव्रतं तस्यां न कार्यं शुभमिच्छता। देशभङ्गो भवेत्तत्र दुर्भिक्षं चोपजायते। नन्दायां दर्श-युक्तायां यत्र स्यान्मम पूजनमिति”। स्कान्देऽपि
“प्रति-पद्याश्विमे मासि सा शुद्धा शुभदा भवेत्। भाद्रपञ्च-दशीकृष्णा तया युक्ता न शस्यते। विरुद्धफलदा सा हिपुत्रदारभयावहेति”। तथा
“वर्जनीया प्रयत्नेन अमा-युक्ता तु पार्थिव!। द्वितीयादिगुणैर्युक्ता प्रतिपत् सर्व-कामदा”। तथा देवीपुराणे
“यो मां पूजयते नित्यंद्वितीयादिगुणान्विताम्। प्रतिपच्छारदीं ज्ञात्वा सोऽश्नुतेसुखमव्ययम्। क्रियते चेदमायुक्ता प्रतिपत् स्थापनेमम। तस्य शापायुतं दत्त्वा भस्मशेषं करोम्यहम्। अग्रहात् कुरुते यस्तु कलशख्यापनं मम। तस्य सम्प-द्विनाशः स्याज्ज्येष्ठः पुत्रो विनश्यति। अमायुक्ता नकर्त्तव्या प्रतिपच्चण्डिकार्चने। धनार्थिभिर्विशेषेण वंश-हानिश्च जायते। न दर्शवलया युक्ता प्रतिपच्चण्डि-र्चने। उदये द्विमुहूर्त्तापि ग्राह्या सोदयगामिनी” इतिदेवीपुराणे
“या चाश्वयुजि मासे स्यात् प्रपितद्भद्रयान्विता। शुद्धा ममार्चनं तस्यां शतयज्ञफलप्रदम्”। रुद्रयामले
“अमायुक्ता सदा चैव प्रतिपन्निन्दिता मता। तत्र चेत्स्थापयेत्कुम्भं दुर्भिक्षं जायते ध्रुवम्। प्रतिपत् स-द्वितीया तु कुम्मारोपणकर्मणि” इति। यद्यपि रुद्र-यामलं डामरं च निर्मूलं तथाप्यविरोधात् प्रचाराच्चतद्वचनानि लिख्यन्ते। तिथितत्त्वे देवीपुराणेऽपि
“प्रात-रावाहवेद्देवीं प्रातरेव प्रवेशयेत्। प्रातःप्रातश्च संपूज्य[Page3993-b+ 38] प्रातरेब विसर्जयेत्”। तत्रैव
“शरत्काले महापूजाक्रियते या च वार्षिकी। सा कार्य्योदयनामिन्यां न तत्रतिथियुग्मता”। तथा
“कुहूकाष्ठोपसंयुक्तां वर्जयेत् प्रति-पत्तिथिम्। राज्यनाशाय सा प्रोक्ता निन्दिता चाश्व-पूजन” इति। एषु वचनेषु कलशस्थापनग्रहणात् तदेवप्रथमदिने निषिद्धं न तूपवासादि तस्य
“प्रतिपदाप्य-भावास्येति युग्मवाक्यात्।
“शुक्ला स्यात् प्रतिपत्तिथिःप्रथमतः” इति दीपिकोक्तेः
“शुक्लपक्षे दर्शविद्धेति” माधवोक्तेश्च पूर्वदिने प्राप्तस्य बाधे मानाभावादिति केचित्। वस्तुतस्तु पूर्वोक्तवाक्येषु चण्डिकार्चनपूजाग्रहणादुप-वासादेश्चाङ्गत्वात् प्रधानदेवीपूजादावपि परेति युक्तम्। कलशस्थापनग्रहणं तूपलक्षणम्। अतएव देवलः
“व्रतो-पवासनियमे घटिकैकापि या भवेत्। सा तिथिस्तद्दिनेपूज्या विपरीता तु पैतृक” इति। अत्र घटिका मुहूर्त्तइति गौडाः। यदा तु पूर्वदिभे सम्भूर्णा शुद्धा च भूत्वापरदिने वर्द्धते तदा सम्पूर्णत्वादमायोगाभावाच्च पूर्वैवयानि च द्वितीयायोगनिषेधकानि वचनानि केचित्पठन्ति तान्यपि शुद्धाधिकनिषेधपराणि परदिने प्रति-पदोऽत्यन्तासत्त्वे तु दर्शयुतापि पूर्बैव ग्राह्या तदाहलल्लः
“तिथिः शरीरं तिथिरेव कारणं तिथिः प्रमाणंतिथिरेव साधनमिति” यानि त्वमायुक्ता प्रकर्त्तव्येत्या-दीनि नृसिंहप्रसादे वचनानि तानि समूलत्वे सत्ये-तद्विषयाणि। अत्रेदं तत्त्वम्। पूर्वोक्तवाक्यानां सर्वेषांहेमाद्र्याद्यलिखितत्वेन निर्मूलत्वात्तैश्चान्यनिर्णयस्यानुक्तेःसामान्यनिर्णयात् पूर्ववत्प्राप्तावपि गौडनिबन्धेषु विशे-षेण निर्णयादौदयिकी ग्राह्या तत्रापि घटिकैकेत्यस्यद्विमुहूर्त्तस्तुतित्वोक्तेर्द्विमुहूर्त्ता ग्राह्या
“उदिते दैवतंभाना” वित्यत्र
“द्विमुहूर्त्ता त्रिरह्नश्चेति” औदयिक्या द्विमु-हूर्त्तत्वनियमात् तेन उदये द्विमुहूर्त्तापीत्याद्यनुसारोऽपि
“मुहूर्त्तमात्रा कर्त्तव्येति” द्विमुहूर्त्तस्तुतिः। अन्यथाद्विमुहूर्त्तविधिवैयर्थ्यात्। केचित्तु मुहूर्त्तमात्रेतिवचनात्ततो न्यूनत्वे परा नेत्याहुः गौडा अप्येवम्। अत्र देवीपूजैव प्रधानम् उपबासादि त्वङ्गम्
“अष्टम्यांच नवम्यां च जगन्मातरमम्यिकाम्। पूजयित्वाश्विनेमासि विशोको जायते नरः” इति हेमाद्रौ भविष्येतस्या एव फलसम्बन्धात्
“नवमीतिथिपर्य्यन्तं वृद्ध्यापूजाजपादिकमिति” तत्रैव देवीपुराणात्।
“शरत्कालेमहापूजा क्रियते या च वार्षिकी” इति मार्कण्डेयपुरा-[Page3994-a+ 38]{??} प्रधानमन्यत् सर्वमङ्गमिति{??} कालिकापुराणे
“यस्त्वेकस्या-{??} साधकः। पूजयेद्वरदां देवीं महा-{??} इति। तत्त्वं तु राजसूवेऽन्ययागैः सभ-{??} सहिताया अप्येषेष्टेरेतया{??}द्यकामं याज-{??} विधानाच्च यथा फलार्थोबर्हिः प्रयोग-{??} नवरात्रमध्यस्याया अष्टम्या नवम्या वा फलार्थः{??}। सूपनारायणधृतदेवीपुराणे
“महानवम्यां{??} सर्वकामप्रदायिका। सर्वेषु सर्ववर्णेषु तव{??} प्रकीर्त्तिता। कृत्वाप्नोति यशो राज्य पुत्रायुर्द्ध{??}” सा च काम्या नित्या च
“एवमन्यैरपि तथादेब्धाः कार्यं पपूजनम्। विभूतिमतुलां लब्धुं चतुर्वर्ग-प्रदायकम्” इति
“यो मोहादय वालस्याद्देवीं दुर्गांमहीत्सवैः। न पूजयति दम्भाद्वा द्वेमाद्वाप्यत्र भैरव!। क्रुद्धाभगवती तस्य काभानिष्टान्निहन्ति वै” इति कालिका-पुराणेऽकरणे निन्दाश्रुतेः
“वर्षे वर्षे विधातव्यं स्यापनञ्चविसर्जनम्” इति तिथितत्त्वे देवीपुराणाच्च। अत्रोपवा-सादिकमुक्तं हेमाद्रौ मविष्ये
“एवं च विन्ध्यवासिन्यानवरात्रोपवामतः। एकभक्तेन नक्तेन तथैवायाचितेन च। पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे। गृहे गृहे शक्तिपरैर्ग्रामेग्रामे नवे नवे। स्नातैः प्रमुदितै-र्हृष्टैर्ब्राह्मणैःक्षत्रियैर्नृपैः। वैश्यैः शूद्रैर्भक्तियुक्तैर्म्ले-च्छैरन्यैश्च मानवैः” इति यत्तु रूपनारायणीये भविष्ये
“एवं नानाम्लेच्छगणैः पूज्यते सर्वदस्युभिरिति” तत्तामस-पूजापरम्।
“विना मन्त्रैस्तामसी स्यात् किरातानान्तु स-म्मतेति” तत्रैवोक्तेः। मदनरत्ने देवीपुराणेऽपि
“कन्या-संस्थे रवौ शक्र! शुक्लामारभ्य नन्दिकाम्। अयाची द्व्यथवैकाशी नक्ताशी वाथ वायुभुक्। भूमौ शयीत चामन्त्र्यकुमारी र्भोजयेन्मुदा। वस्त्रालङ्कारदानैश्च सन्तोष्याःप्रतिवासरम्। यलिञ्च प्रत्यहं दद्यादोदनं मांसमाषवत्। त्रिकालं पूजयेद्देवीं जपस्तोत्रपरायणः” इति नन्दिकाप्रतिपत्तिथिरिति मैथिलाः। षष्ठीति गौडाः। तच्च पूजनंरात्रौ कार्य्यम्
“आश्विने मासि मेघान्ते महिषासुरम-र्दिनीम्। निशासु पूजयेद्भक्त्या सोपवासादिकः क्रमात्” इति देवीपुराणात् संग्रहेऽपि
“आश्विने मासि मेषान्तेप्रतिपद्या तिथिर्भवेत्। तस्यां नक्तं प्रकुर्वीत रात्री देवींच पूजयेत्। रात्रिरूपा यतो देवी दिवारूपो महेश्वरः। रात्रिव्रतमिदं देवि! सर्वपापप्रणाशनम्। सर्वकामप्रदं[Page3994-b+ 38] नॄणां सर्वशत्रुनिवर्हणम्। रात्रिव्रतमिदं तस्य रात्रौकर्त्तव्यतेष्यते। नक्तव्रतमिदं यस्मादन्यथा नरके गतिः” इत्यादिवचनाच्च रात्रिव्रतत्वमेवाभिप्रेत्य माधवेनोक्तम् तस्यनक्तव्रतत्वादिति। न तु रात्रिभोजनात्।
“ननु मासि चा-श्वयुजे शुक्ले नवरात्रे विशेषवत्। संपूज्य नवदुर्गाञ्च नक्तंकुर्य्यात् समाहितः। नवरात्राभिधं कर्म नक्तव्रतमिदंस्मृतम्”। आरम्भे नवरात्रस्येत्यादि स्कान्दात् माधवो-क्तेश्च नक्तमेव प्रधानमिति चेत् नवरात्रोपवासत इत्या-देरनुपपत्तेः तेन पाक्षिकनक्तानुवादोऽयं नित्यानित्य-संयोगविरोधात् नह्यग्निहोत्रे दध्नं पक्षे प्राप्तस्य दध्ना-जुहोतीत्यस्येन्द्रियकामहोमेऽनुवादो घटते नित्यवदनु-वादायोगादित्युक्तं वार्त्तिके, तथात्राऽपि। तेनात्रतद्वदेव गुणात् फलमिति ज्ञेयम्। ननु रात्रेः कर्म-कालत्वे तद्व्यापिनी पूर्वैव प्रतिपत् प्राप्नुयात् मैवम्न्यायतः प्राप्तावपि पूर्वोक्तवचनैर्वाधात् यथा पूर्वेद्युःकमेकालव्यापिनीमपि त्यक्त्वा स्वल्पापि परैव रामनव-मीति प्रागुक्तम् यथा वा निशीथे सतीमपि पूर्वांजन्माष्टमीं त्यक्त्वा रोहिणीयुक्ता परैवेति माधवेनोक्तम्तथात्रापि। वस्तुतस्तु रात्रेः कर्मकालत्ववचसांहेमाद्र्याद्यलिखनात् समूलत्वं विमृश्यमेव त्रिकालंपूजयेदित्यादिपूर्वविरोधाच्च। माधवोक्तिस्तु पाक्षिकन-क्तानुवाद इत्युक्तम्। तस्मात् सर्वपक्षेषु परैव प्रतिपदितिसिद्धम्। अत्र केचिन्नवरात्रशब्दो नवाहोरात्रपरः
“वृद्धौ समाप्तिरष्टम्याम्” ह्रासेन प्रतिपन्निशि। प्रारम्भोनवचण्ड्यास्तु नवरात्रमतोऽर्थवत्” इति देवीपुराणादि-त्याहुः। तन्न ह्रासवृद्ध्योर्न्यूनाधिकत्वापत्तेः अत्रमूलाभावाच्च तेन तिथिवाच्येवायं तदुक्तम्
“तिथिवृद्धौतिथिह्रासे नवरात्रमपार्थकम्। अष्टरात्रे न दोषोऽयंनवरात्रं तिथिक्षये” इति। स च नवरात्रशब्दः क्वचिल्ल-क्षणया कर्मवाची यथा। प्रारम्भो नवरात्रस्येत्यत्रेति दिक्”
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नवरात्र¦ n. (-त्रं) The period of nine days, from the first of the light half of Aswin to the ninth; part of the time devoted to the worship of DURGA
4. E. नव, and रात्रि a night.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नवरात्र/ नव--रात्र m. a period of 9 days. AitBr. S3rS.
नवरात्र/ नव--रात्र m. a सोमsacrifice with 9 सुत्याdays Ka1tyS3r. ; 9 days in the middle of the गवाम्-अयनS3a1n3khS3r.
नवरात्र/ नव--रात्र n. (also त्रिक)the 9 days from the Ist of the light half of month आश्विनto the 9th (devoted to the worship of दुर्गा) RTL. 431
