सामग्री पर जाएँ

नवरात्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नवरात्रम्, क्ली, (नवानां रात्रीणां समाहारः । तत् साधनत्वेनास्त्यस्येति अच् ।) आश्विनशुक्ल- प्रतिपदादिनवमीपर्य्यन्तनवदिनकर्त्तव्यदुर्गाव्रत- विशेषः । तस्यारम्भः । देवीपुराणे डामरतन्त्रे च देवीवचः । “अमायुक्ता न कर्त्तव्या प्रतिपत् पूजने मम । मुहूर्त्तमात्रा कर्त्तव्या द्वितीयादिगुणान्विता ॥” मार्कण्डेयदेवीपुराणयोः । “पूर्ब्बविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी । नवरात्रव्रतं तस्यां न कार्य्यं शुभमिच्छता ॥” अत्रोपवासादिकमुक्तं हेमाद्रौ भविष्ये । “एवञ्च विन्ध्यवासिन्यां नवरात्रोपवासतः । एकभक्तेन नक्तेन तथैवायाचितेन च ॥ पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे । स्नातैः समुदितैर्हृष्टैर्ब्राह्मणैः क्षत्त्रियैर्नृपैः ॥ वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लेच्छैरन्यैश्च मानवैः ॥” मदनरत्ने देवीपुराणेऽपि । “कन्यासंस्थे रवौ शक्र ! शुक्लामारभ्य नन्दिकाम् । अपाशी ह्यथवैकाशी नक्ताशी वाथ वाय्वदः ॥ भूमौ शयीत चामन्त्र्य कुमारीर्भोजयेन्मुदा । वस्त्रालङ्कारदानैश्च सन्तोष्याः प्रतिवासरम् ॥ बलिञ्च प्रत्यहं दद्यादोदनं मांसमाषवत् । त्रिकालं पूजयेद्देवीं जपस्तोत्रपरायणः ॥” स्कान्दे । “मासि चाश्वयुजे शुक्ले नवरात्रे विशेषतः । संपूज्य नवदुर्गाञ्च नक्तं कुर्य्यात् समाहितः ॥ नवरात्राभिधं कर्म्म नक्तव्रतमिदं स्मृतम् । तिथिवृद्ध्वौ तिथिह्रासे नवरात्रमपार्थकम् ॥ अष्टरात्रे न दोषोऽयं नवरात्रतिथिक्षयः ॥” * ॥ तत्र पूजाविधिः । सा च जयन्तीत्यादिमन्त्रेण नवाक्षरेण वा कार्य्या । यथा । सङ्कल्पं विधाय घटं संस्थाप्य तत्र देवीमावाह्य षोडशोपचारैः पूजयित्वा माषभक्तवलिं कुष्माण्डादिबलिं वा निवेदयेत् ॥ * ॥ ततः कुमारीपूजा । यदुक्तं हेमाद्रौ स्कान्दे । “एकैकां पूजयेत् कन्यामेकवृद्ध्या तथैव च । अथ बलनीराजनम् । कल्परत्ने । तत्र मन्त्रः । “चतुरङ्गं बलं मह्यं निरनिष्टं व्रजत्विह । सर्व्वत्र विजयो मेऽस्तु त्वत्प्रसादात् सुरेश्वरि ! ॥” गौडनिबन्धे ज्योतिषे । “कृत्वा नीराजनं राजा बलवृद्ध्यै यथाक्रमम् । शोभनं खञ्जनं पश्येत् जलगोष्ठस्य सन्निधौ ॥” इति निर्णयसिन्धुः ॥

"https://sa.wiktionary.org/w/index.php?title=नवरात्रम्&oldid=143649" इत्यस्माद् प्रतिप्राप्तम्