सामग्री पर जाएँ

नववधूः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नववधूः, स्त्री, (नवा नूतना वधूः ।) नवोढा । नवीना भार्य्या । यथा, -- “असम्भवद्घनरसा शतालिगणसेविता । करं न सहते राजन् ! भूमिर्न्नववधूरिव ॥” इति द्व्यर्थकाव्यम् ॥ * ॥ नववध्वागमनदिनं यथा । तत्र अष्टमदशम- द्बादशषष्ठचतुर्थवर्षाणि निषिद्धानि । (यदुक्तं ज्योतिषे । “श्वश्रुं हन्त्यष्टमे वर्षे श्वशुरञ्च दशाब्दिके । संप्राप्तें द्वादशे वर्षे पतिं हन्ति द्विरागमे ॥ विवाहमासि प्रथमं वध्वा नागमनं यदि । तदा सर्व्वमिदं चिन्त्यं युग्माब्दादि विचक्षणैः ॥”) मासा मार्गफाल्गुनवैशाखा विहिताः । पक्षः शुक्लः । विहितनक्षत्राणि पुष्यस्वातीहस्ताधनि- ष्ठोत्तराषाढोत्तरफल्गुन्युत्तरभाद्रपदारेवतीमृग- शिरोरोहिणीपुनर्व्वसुपूर्ब्बाषाढाः । वाराः बृह- स्पतिबुधशुक्रसोमानाम् । तिथयो यात्राप्रकर- णोक्ताः । त्र्यहस्पर्शवारवेलादिक्शूलादीन् परि- त्यज्य ताराचन्द्रशुद्धौ कालशुचौ च कार्य्यम् ॥ इति ज्योतिषम् ॥ अपि च । “स्वातीमूलपुनर्व्वसूत्तरकराश्चित्रानुराथाश्विनी रोहिण्यः श्रवणा द्बिरागमविधौ पुष्या धनिष्ठा तथा । भर्त्तुर्गोचरशोभने दिनपतौ काले पुनः शोभने कुम्भाजालिरवौ शुभे शुभतिथौ वारादियात्रो- दिते ॥ वैशाखे मार्गशीर्षे हि फाल्गुने हि शुभे रवौ । नववध्वागमं कुर्य्यादन्यमासे विवर्ज्जयेत् ॥” इति मथुरेशचक्रवर्त्तिकृतसारसंग्रहः ॥ (अन्यद्द्विरागमनशब्दे द्रष्टव्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=नववधूः&oldid=143653" इत्यस्माद् प्रतिप्राप्तम्