सामग्री पर जाएँ

नववध्वागमन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नववध्वागमनम्, क्ली, (नववध्वा आगमनम् ।) नवोढायाः प्रथमपतिगृहगमनम् । तद्दिनं यथा, “स्त्रीशुद्ध्याजघटालिसंयुतरघौ काले विशुद्धे भृगुं सन्त्यज्य प्रतिलोमगं शुभदिने यात्राप्रवेशोचिते । त्यक्त्वाहस्तु निरंशकं नववधूयात्राप्रवेशौ पतिः कुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्ति दोषं बुधाः ॥ एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे । पतिना नीयमानायाः पुरः शुक्रो न दुष्यति ॥” इति दीपिका ॥ अन्यत् नववधूशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=नववध्वागमन&oldid=143654" इत्यस्माद् प्रतिप्राप्तम्