नववस्त्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नववस्त्रम्, क्ली, (नवं वस्त्रम् ।) नवीनवसनम् । नूतन कापड इति भाषा ॥ तत्पर्य्यायः । अना- हतम् २ आहतम् ३ अहतम् ४ तन्त्रकम् ५ निष्प्रवाणि ६ । इति शब्दरत्नावली ॥ नवा- म्बरम् ७ इत्यमरः । २ । ६ । ११२ ॥ अथ नववस्त्रपरिधानदिनम् । तत्र वाराः बुधबृहस्पतिशुक्राणाम् । नक्षत्राणि रोहिणीमृगशिरोमघानुराधाधनिष्ठापुष्यवि- शाखाहस्ताचित्रोत्तरफल्गुन्युत्तराषाढोत्तरभा- द्रपदाश्विनीस्वातीपुनर्व्वसुरेवत्यः ॥ “घनिष्ठा रोहिणी हस्ताविशाखा चोत्तरासु च । ज्येष्ठा पुनर्व्वसुस्वाती चित्राश्विनी च रेवती ॥” इति सारसंग्रहः ॥ अपि च । “धातानुराधवसुपुष्यविशाखहस्ता- चित्रोत्तराश्विपवनादितिरेवतीषु । जन्मर्क्षजीवबुधशुक्रदिनोत्सवादौ धार्य्यं नवं वसनमीश्वरविप्रतुष्टौ ॥ शीर्णं रवौ सततमम्बुभिरार्द्रमिन्दौ भौमे शुचं बुधदिने च भवेद्धनाय । ज्ञानाय मन्त्रिणि भृगौ प्रियसङ्गमाय मन्दे मराय च नवाम्बरधारणं स्यात् ॥” इति समयप्रदीपः ॥
