नवान्नम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नवान्नम्, क्ली, (नवं नूतनं अन्नम् ।) नूतनान्नम् । तन्निमित्तश्राद्धम् । यथा, -- वराह उवाच । “अकृत्वा यो नवान्नानि मम कर्म्मपरायणः । भुञ्जन्ति ये नवान्नानि परैः शक्तानि केन ह ॥ नाहं लोभेन चेच्छामि पुनर्भोगेन सुन्दरि ! । अवश्यमेव कर्त्तव्यं मम कर्म्मपरायणैः ॥ ततो भागवतो भूत्वा नवान्नं यो न कारयेत् । पितरस्तस्य नाश्नन्ति वर्षाणि दश पञ्च च ॥ अदत्त्वा यस्तु भुञ्जीत नवान्नानि कथञ्चन । न तस्य धर्म्मो विद्येत एवमेतन्न संशयः ॥ अन्यच्च ते प्रवक्ष्यामि येन तत्र प्रमुच्यते । प्रायश्चित्तं महाभागे ! मम भक्तसुखावहम् ॥ उपवासं त्रिरात्रन्तु तत एकेन वा पुनः । आकाशशयनं कृत्वा चतुर्थेऽहनि शुध्यति ॥ एवं तत्र विधिं कृत्वा उदिते च दिवाकरे । पञ्चगव्यं ततः पीत्वा शीध्रं सुच्येत किल्विषात् ॥ य एतेन विधानेन प्रायश्चित्तं समाचरेत् । सर्व्वसङ्गान् षरित्यज्य मम लोकाय गच्छति ॥” इति नवान्नभोक्षणापराधप्रायश्चित्तम् ॥ इति वराहपुराणम् ॥ * ॥ तस्य निषिद्धदिनं यथा, -- “सूर्य्ये चैव विशाखगे स्मरतिथौ पापे त्रिजन्मा- न्विते नन्दामन्दमहीजकाव्यदिवसे पौषे मधौ कार्त्तिके । भेषूग्राहिशिवेषु विष्णुशयने कृष्णे शशिन्यष्टमे श्राद्धं भोजनकं नवान्नविहितं पुत्त्रार्थनाश- प्रदम् ॥” सूर्य्ये चैव विशाखगे मार्गशीर्षस्य विंशति- दण्डाधिकप्रथमदिनत्रयावस्थिते सूर्य्ये । स्मर- तिथौ त्रयोदश्याम् । पापे पञ्चमतारात्रये । उग्रः पूर्ब्बात्रयमघाभरण्यः । अहिरश्लेषा । शिव आर्द्रा । “ज्येष्ठाशेषार्द्धगे सूर्य्ये मृगनेत्रनिशात्मके । नवान्नैर्भोजनं श्राद्धं जन्मचन्द्रे तिथौ न च ॥ अश्लेषाकृत्तिकाज्येष्ठामूलाजपदकेषु च । भृगुभौमदिने रिक्ततिथौ नाद्यान्नवौदनम् ॥” तस्य विधिर्यथा, -- “प्राश्नीयाद्दधिसंयुक्तं नवं विप्राभिमन्त्रितम् ॥” दीपिकायाम् । “भेषूग्राहिशिवान्येषु विभौमशनिवासरे । अन्नप्राशनवत् कुर्य्यान्नवान्नफलभक्षणम् ॥” अधिकन्तु । “हस्ता स्वातिपुनर्व्वसू मृगशिरःपुष्यानुराधा तथा मूलायां श्रवणे च रेवतिधने चित्रामले वारुणे । ब्राह्मे शक्रविशाखयोश्च तुरगे सौम्येन्दुजीवाहके चन्द्रे शोभनतारके च शुभदं श्राद्धं नवान्नैः कृतम् ॥” भोजराजः । “ब्रह्मा विष्णुबृहस्पती शशधरो मार्त्तण्डपौष्णा- दिती मैत्रे चैव विशाखवायुधनभे मूलाश्विवह्नौ तथा । शक्रे वारुण ऋक्षके शुभदिने श्राद्धं नवं शस्यते नन्दाभार्गवभूमिजेषु न भवेच्छ्राद्धं नवान्नो- द्भवम् ॥” इति ज्योतिस्तत्त्वम् ॥ आश्विंनाधिकारे । “शुक्लपक्षे नवं धान्यं ज्ञात्वा पक्वं सुशोभनम् । गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरः ॥” इत्यादिना ब्रह्मपुराणेन श्राद्धविधानात् ॥ अपि च । “शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥” इति मलमासतत्त्वम् ॥
