सामग्री पर जाएँ

नवोदक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नवोदकम्, क्ली, (नवमुदकम् ।) नूतनजलम् । यथा, मिताक्षरायां स्मृतिः । “काले नवोदकं शुद्धं न पातव्यञ्च तत् त्र्यहम् । अकाले तु दशाहानि पीत्वा नाद्यादहर्निशम् ॥” इति शुद्धितत्त्वम् ॥ तन्निमित्तकं श्राद्धं कर्त्तव्यम् । यथा, शातातपः । “नवोदके नवान्ने च गृहप्रच्छादने तथा । पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥ तस्माद्दद्यात् सदा युक्तो विद्बत्सु ब्राह्मणेषु च ॥ नवोदके वर्षोपक्रमे । आर्द्रागते रवाविति यावत् । ‘आर्द्रादितो विशाखान्तं रविचारेण वर्षति ।’ इति नव्यवर्द्धमानधृतात् ॥ ‘प्राविट्काले समायाते रौद्रऋक्षगते रवौ । नाडीवेधसमायोगे जलयोगं वदाम्यहम् ॥’ इति रुद्रयामलाच्च ॥ रौद्रमार्द्रा ॥ * ॥ नवोदकश्राद्धस्य सावकाश- त्वात् त्रयोदश्यादिकनिषेधमाह दीपिकायाम् । ‘त्रयोदशीं जन्मदिनञ्च नन्दां जन्मर्क्षतारां सितवासरञ्च । त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्र- ध्रुवेषु च श्राद्धविधानमिष्टम् ॥’ सितवासरं शुक्रवारम् । ऋक्षं राशिः । हर्य्या- दयः श्रवणपुष्यमृगशिरोहस्तारेवत्यनुराधोत्तरा- त्रितयरोहिण्यः । कृष्णपक्षे चेन्नवोदकश्राद्ध- कालस्तदोभयोः श्राद्धयोस्तन्त्रात् सिद्धिः ।” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नवोदक¦ न॰ नवं पतितमुत्यितं वा उदकम्।

१ नवखातेउत्थिते उदके

२ गगनादभिनवपतिते जले च तस्यापेय-त्वादिकं प्रा॰ त॰ निरूपितं यथा( हारीतः
“मत्स्यकण्टकशम्भूकश{??}शुक्तिकपर्दकान्। [Page3999-b+ 38] पीत्वा नवोदकञ्चैव पञ्चगव्येन शुध्यति”। नवोदकं नव-स्वातजलं वर्षोदकञ्च तथा ब्रह्मपुराणम्
“नवस्वातजलंगावो महिष्यश्छागयोनयः। शुध्यन्ति दिवसैरेव दश-भिर्नात्र संशयः” मिताक्षराधृता स्मृतिः
“काले नवोदकंशुद्धं न पातव्यन्तु तत् त्र्यहम्। अकाले तु दशाहंस्यात् पीत्वा नाद्यादहर्निशम्” काले वर्षाकाले। शङ्खः
“स्नानमाचमनं दानं देवतापितृतर्पणम्। शूद्रोदकैर्नकुर्वीत तथा मेघाद्विनिःसृतैः”। पानादीतरत्र स्पर्शादौच हविवंशः।
“अमौममम्भोविसृजन्ति मेघाः पूतंपवित्रं पवनैः सुनन्धि”। नबोदकनिमित्तं च पार्वणंश्राद्धं नित्यं, तद्विधानादि ति॰ त॰ उक्तं यथाशातातपः
“नबोदके नवान्ने च गृहप्रच्छादने सदा। पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च। तस्माद्दद्यात्सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च” अत्र सदेति श्रवणात्अस्य नित्यत्वम्। नवोदके वर्षोपक्रमे आर्द्रागते रबा-विति यावत्।
“आर्द्रादिती बिशाखान्तं रविचारेणवर्षति” इति नव्यवर्द्धमानधृतात्
“प्रावृट्काले समा-याते रौद्र ऋक्षगते रवौ। नाडीवेधसमायोगे जल-योगं बदाम्यहम्” इति रुद्रजामलाच्च। रौद्रमार्द्रानवोदकश्राद्धस्य सावकाशत्वात् त्रयोदश्यादिषु निषेधमाहदीपिकायाम्
“त्रयोदशीं जन्मदिनञ्च नन्दां जन्मर्क्ष-तारां सितवासरञ्च। त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्रध्रुवेषु च श्राद्धविधानमिष्टम्”। सितबासरं शुक्रवारंऋक्षं राशिः हर्य्यादयः श्रवणपुष्यमृगशिरोहस्तारेबत्य-नुराधा उत्तरात्रितयरोहिण्यः। कृष्णपक्षे चेन्नबोदक-श्राद्धकालस्तदोमयोः श्राद्धयोस्तन्त्रात् सिद्धिः”।

"https://sa.wiktionary.org/w/index.php?title=नवोदक&oldid=347008" इत्यस्माद् प्रतिप्राप्तम्