सामग्री पर जाएँ

नव्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नव्यम्, त्रि, (नूयते स्तूयते इति । नु स्तुतौ + “अचो यत् ।” ३ । १ । ९७ । इति यत् । यद्वा, नव- मेव । “शाखादिभ्यो यत् ।” ५ । ३ । १०३ । इति स्वार्थे यत् ।) नूतनम् । इत्यमरः । ३ । १ । ७७ ॥ (यथा, ऋग्वेदे । ३ । ५५ । १६ । “नव्या नव्या युवतयो भवन्तीर्महद्देवानामसुर- त्वमेकम् ॥” स्तुत्यम् । यथा, ऋग्वेदे । ५ । १३ । ३ । “कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः ॥”) क्ली, स्तुतिः । नु ल स्तुतौ भावे अल् नवशब्दात् स्वार्थे ये निष्पन्नः ॥

"https://sa.wiktionary.org/w/index.php?title=नव्यम्&oldid=143684" इत्यस्माद् प्रतिप्राप्तम्