सामग्री पर जाएँ

नश्वरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नश्वरः, त्रि, (नश्यतीति । नश + “इण्नशजि- सर्त्तिभ्यः क्वरप् ।” ३ । २ । १६३ । इति क्वरप् ।) नाशप्रतियोगी । ध्वंसयोग्यः । इति नशधातोः कर्त्तरि वरप्रत्ययनिष्पन्नः ॥ (यथा, भागवते । ५ । १८ । ४ । “वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=नश्वरः&oldid=143692" इत्यस्माद् प्रतिप्राप्तम्