सामग्री पर जाएँ

नष्टचन्द्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नष्टचन्द्रः, पुं, (नष्टो दुष्टश्चन्द्रः ।) सौरभाद्रस्यो- भयपक्षे चतुर्थ्यामुदितश्चन्द्रः । यथा, -- “नष्टश्चन्द्रो न दृश्यश्च भाद्रे मासि सितासिते । चतुर्थ्यामुदितोऽशुद्धः प्रतिषिद्धो मनीषिभिः ॥ चन्द्रस्तारापहरणं कलङ्कमतिदुष्करम् । तस्मै ददाति हे नन्द ! कामतो यदि पश्यति ॥ अकामतो नरो दृष्ट्वा मन्त्रपूतं जलं पिबेत् । तदा शुद्धो भवेत् सद्यो निष्कलङ्की महीतले ॥ ‘सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । सुकुमारक ! मारोदीस्तव ह्येष स्यमन्तकः ॥’ इति मन्त्रेण पूतश्च जलं साधुः पिबेद्ध्रुवम् ॥ पुरा तारा गुरोः पत्नी नवयौवनसंयुता । रत्नभूषणभूषाढ्या रत्नसूक्ष्माम्बरा सती ॥ सुश्रोणी सुस्मिता रम्या सुन्दरी सुमनाहरा । अतीवकवरीरम्या मालतीमाल्यभूषिता ॥ सिन्दूरविन्दुना साकं चारुचन्दनविन्दुभिः । कस्तूरीविन्दुनाधश्च भालमध्यस्थलोज्ज्वला ॥ रत्नेन्द्रसारनिर्म्माणक्वणन्मञ्जीररञ्जिता । सुवक्रलोचना श्यामा सुचारुकज्जलोज्ज्वला ॥ सुचारुचारुमुक्ताभदन्तपङ्क्तिमनोहरा । रत्नकुण्डलयुग्मेन चारुगण्डस्थलोज्ज्वला ॥ कामिनीष्वतुला बाला गजेन्द्रमन्दगामिनी । सुकोमला चन्द्रमुखी कामाधारा च कामुकी ॥ स्वर्गमन्दाकिनीतीरे स्नाता स्निग्धाम्बरा वरा । ध्यायन्ती गुरुपादं सा स्वगृहं गमनोन्मुखी ॥ दृष्ट्वा तस्याश्च सर्व्वाङ्गमनङ्गवाणपीडितः । भाद्रे चतुर्थ्याञ्चन्द्रश्च जहार चेतनं व्रज ! ॥ ज्ञानं क्षणेन संप्राप्य रथस्थो रसिको बली । रथमारोहयामास करे धृत्वा च तारकाम् ॥ कामोन्मत्तः कामिनीन्तां समाश्लिष्य चुचुम्ब सः । शृङ्गारं कर्त्तुमुद्यन्त तमुवाच गुरुप्रिया ॥ उवाच च महादेवो निर्भयं देवसंसदि ॥ महादेव उवाच । स्वस्थानं गच्छ पुत्त्र ! त्वं कुरु स्वविषयं मुदा । पश्चात् श्वशुरशापेन यक्ष्मग्रस्तो भविष्यसि ॥ व्यर्थं पतिव्रताशापं कर्त्तुमीशश्च को भुवि । ममाशिषा यक्ष्मणश्च प्रतिकारो मविष्यति ॥ यस्माद्भाद्रचतुर्थ्यान्तु गुरुपत्नी क्षता कृता । तस्मात्तस्मिन्दिने वत्स ! पापदृश्यो युगे युगे ॥ मा भुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म्म शुभाशुभम् ॥ देहत्यागेन हे वत्स ! कर्म्मभोगो न नश्यति । प्रायश्चित्तान्न सन्देहो ह्यस्तमेव भविष्यति ॥ तारापहरणं वत्स ! कलङ्कश्चन्द्रमण्डले । मृगाकृतं विलग्नञ्च मविष्यति युगे युगे ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ८०-८१ अः ॥

"https://sa.wiktionary.org/w/index.php?title=नष्टचन्द्रः&oldid=143696" इत्यस्माद् प्रतिप्राप्तम्