सामग्री पर जाएँ

नस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नस्तः, पुं, (नसते कुटिलतां प्रकाशयत्यनेनेति । नस् + क्तः । बाहुलकात् इडभावः ।) नासिका । इति शब्दमाला ॥ (यथा, महाभारते । ५ । १३१ । १० । “नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्याञ्च समन्ततः । प्रादुरासन् महारौद्राः सधूमाः पावकार्च्चिषः ॥”) नस्ये, क्ली । इति रत्नमाला ॥ पञ्चविधनस्त- कर्म्माणि यथा, -- “प्रतिमर्षोऽवपीडश्च नस्यं प्रधमनन्तथा । शिरोविरेचनञ्चैव नस्त कर्म्म तु पञ्चधा ॥ ईषदुच्छ्वसनात् स्नेहो यावान् वक्तं प्रपद्यते । नस्ते निषिक्तस्तं विद्यात् प्रतिमर्षं प्रमाणतः ॥ प्रतिमर्षश्च नस्यार्थं करोति च न दोषभाक् । शोधनः स्तम्भनस्तु स्यादवपीडो द्बिधा मतः ॥ अवपीड्य दीयते यस्मादवपीडस्ततः स्मृतः । स्नेहार्थं शून्यशिरसां ग्रीवास्कन्धोरसां तथा ॥ बलार्थं दीयते स्नेहो नस्तशब्दोऽत्र वर्त्तते । नस्यस्य स्नैहिकस्यात्र देयास्त्वष्टौ तु विन्दवः ॥ प्रत्येकशो नस्तकयोर्नृणामिति विनिश्चयः ॥” इति वैद्यकपरिभाषा ॥ “शुक्तिश्च पाणिशुक्तिश्च मात्रास्तिसः प्रकी- र्त्तिताः । द्वात्रिंशद्बिन्दवश्चात्र शुक्तिरित्यभिधीयते ॥ द्विशुक्ती पाणिशुक्तिश्च देयास्तु कुशलैर्नरैः । तैलं कफे च वाते च केवले पवने वसाम् ॥ दद्यान्नस्यं सदा पित्ते सर्पिर्म्मज्जां समारुते । ध्मापनं रेचनं चूर्णं युञ्ज्यात्तं मुखवायुना ॥ षडङ्गुलद्बिमुखया नाड्या भेषजगर्भया । स हि भूरितरं दोषं चूर्णत्वादपकर्षति ॥ शिरोविरेचनद्रव्यैः स्नेहैर्वातैः प्रसाधितैः । शिरोविरेचनं दद्यात् रोगेष्वेतेषु बुद्धिमान् ॥ गौरवे शिरसः शूले जाड्ये स्यन्दे गलामये । शोथगण्डक्रिमिग्रन्थिकुष्ठापस्मारपीनसे ॥ तोयमद्यगरस्नेहपीतानां पातुमिच्छताम् । भुक्तभक्तशिरः स्नातस्नातुकामसुतासृजाम् ॥ नवपीनसरोगार्त्तसूतिकाश्वासकासिनाम् । शुद्धानां दत्तवस्तीनां तथा नार्त्तवदुर्द्दिने ॥ अन्यत्रात्ययिके व्याधौ नैषां नस्यं प्रयोजयेत् । न नस्यं न्यूनसप्ताब्दे नातीताशीतिवत्सरे । न चोनद्बादशे धूमः कवडो नोनपञ्चमे ॥ न शुद्धिर्न्यूननवमे न चातिक्रान्तसप्ततौ । आजन्ममरणं शस्तं प्रतिमर्षन्तु वस्तिवत् ॥” इति सारकौमुदी ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नस्त¦ पु॰ नस--संज्ञायां त।

१ नासिकायां शब्दमाला। नासि-कायै हितः वा॰ त नसादेशश्च। नासिकायां हिते

२ वैद्य-कोक्ते पञ्चविधे नस्ये न॰। नस्यशब्दे सुश्रुतवाक्ये तेषांलक्षणानि दृश्यानि। नासिकायाः

३ छिद्रे स्त्री
“नस्ता-भेदनदाहाभ्यां कर्णदाहास्थिभेदनैः। अतिदाहातिबाहाभ्यां बधे चान्द्रायणं चरेत्” स्मृतिः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नस्त¦ m. (-स्तः) The nose. n. (-स्तं) A sternutatory, snuff, &c. f. (-स्ता) A hole bored in the septum of the nose. E. णस् to make crooked, affix संज्ञायां त |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नस्तः [nastḥ], The nose. -स्तम् A sternutatory, snuff. -स्ता A hole bored in the septum of the nose. -Comp. -ऊतः an ox led by a string through the nose.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नस्त m. the nose L.

नस्त n. a sternutatory , snuff L.

"https://sa.wiktionary.org/w/index.php?title=नस्त&oldid=347525" इत्यस्माद् प्रतिप्राप्तम्