सामग्री पर जाएँ

नस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नस्यम्, क्ली, (नासिकायै हितम् । नासिका + यत् । नसादेशश्च ।) नासिकादेयचूर्णादि । तत्- पर्य्यायः । नस्तम् २ लावणम् ३ । इति रत्न- माला ॥ यथा, वैद्यकपरिभाषायाम् । “वमनं रेचनं नस्यं निरूहश्चानुवासनम् । ज्ञेयं पञ्चविधं कर्म्म मात्रा तस्य प्रवक्ष्यते ॥” नासाद्वारा देयौषधविशेषः । यथा, -- “प्रस्थे द्वे गण्डमालानां क्वाथयेत् द्रोणमम्भसाम् । चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥ काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् । पुनर्नवां गोक्षुरकं सैन्धवं त्र्युषणं वचा ॥ सरलं सुरदारुश्च बृहती कण्टकारिका । इति मध्यखण्डे विंशेऽध्याये शार्ङ्गधरेणोक्तम् ॥ “नस्यकर्म्म यथाकालं यो यथोक्तं निषेवते । न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते ॥ न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः । न च केशाः प्रलुट्यन्ते वर्द्धन्ते च विशेषतः । मन्यास्तम्भःशिरःशूलमर्द्दितं हनुसंग्रहः ॥ पीनसार्द्धावभेदौ च शिरःकम्पश्च शाम्यति । सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः ॥ नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम् ॥ मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् । सर्व्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम् ॥ न चास्य रोगाः सहसा प्रभवन्त्यूर्द्ध्वजत्रुजाः । जीर्य्यतश्चोत्तमाङ्गे च जरा न लभते बलम् ॥” इति चरके सूत्रस्थाने पञ्चमेऽध्याये ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नस्य¦ त्रि॰ नासिकायै हितं तत्र भवो वा यत् नसादेशः।

१ ना-सिकाभवे

२ तद्धिते च

३ सुश्रुतोक्ते नासिकाहिते क्रियाभेदेयधा
“नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः। औषध-मौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यंतद्द्विविधं शिरोविरेचनं स्नेहनञ्च तद्द्विविधमपि पञ्चधा। तद्यथा नस्यं शिरोविरेचनं प्रतिमर्शोऽवपीडः प्रधमनञ्चतेषु नस्यं प्रधानं शिरोविरेचनञ्च नस्यविकल्पः प्रतिमर्शःशिरोविरेचनविकल्पोऽवपीडः प्रधमनञ्च। ततो नस्य-शब्दः पञ्चधा निपातितः। तत्र यः स्नेहनार्थं शून्य-शिरसां ग्रीवास्कन्धोरसां बलजननार्थं दृष्टिप्रसादजन-नार्थं वा स्नेहो विधीयते तस्मिन्वैशेषिको नस्यशब्दः। तत्तु नस्यं देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपात-दारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघातनासारोगास्यशो-षाषयाहुकाकालजवलीपलितप्रादुर्भावदारुणप्रबोधेषु वा-तपैत्तिकेषु मुखरोगेष्वन्येषु च बातपित्तहरद्रव्यसिद्धेनस्नेहेनेति। शिरोविरेचनं श्लेष्मणाभिव्याप्ततालुकण्ठ-शिरसामरोचकशिरोगौरबशूलपीनसार्द्धावभेदककृमिप्रति-श्यायापस्मारगन्धाज्ञानेष्वन्थेषु चोर्द्धजत्रुनतेषु कफजेषुविकारेषु शिरोविरेचनद्रव्यैस्तत्सिद्धेन वा स्नेहेगेति। तत्रैतद्द्विविधमभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणांमध्याह्रे पित्तरोगिणामपराह्णे वातरोगिणाम्। अथपुरुषाय शिरोविरेचनीयाय दन्वकाष्ठधूमपानाभ्यां विशु-द्धवक्त्रस्नेतसे पाणितापपरिस्विन्नमृदितगलकपोलललाट-प्रदेशाय वातातपरजोहीनवेश्मन्थुत्तानशायिने प्रसारित-करचरणय किञ्चित् प्रविलम्बितशिरसे वस्त्राच्छादि-तनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्ध-स्रोतसि दक्षिणहस्तेन स्नेहमुष्णानुतप्तं रजतसुवर्णता-म्रमृत्पात्रशुक्तीनामन्थतमस्थं शुक्त्या पिचुना वा सु-खोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे नप्राप्तोति। स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत्। न कुप्येन्न् प्रभाषेच्च न क्ष्णुयान्न हसेत्तथा। एतैर्हि वि-हतः स्नेहो न सम्यक्प्रतिपद्यते। ततः कासप्रतिश्या-[Page4007-a+ 38] यशिरोऽक्षिगदसम्भवः” तस्य प्रमाणमष्टौ विन्दवः प्रदेशि-नीपर्वद्वयनिःसृताः प्रथममात्रा, द्वितीया शुक्ति, स्तृतीयापाणिशुक्तिरित्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः। स्नेहनस्यं नचोपगिलेत्किञ्चिदपि।
“शृङ्गाटकमभिप्लाव्यनिरेति वदनाद्यथा। कफोत्क्लेशभयाच्चैव निष्ठीवेदबि-धारयन्” दत्ते च पुनरपि संस्वेद्य गलकपोलादीन्धूम-मासेवेत भोजयेच्चैनमभिष्यन्दि ततोऽस्याचारिकमादिशेत्। रजीधूमस्नेहातपमद्यद्रवपानशिरःस्नानातियानक्रोधा-दीनि च परिहरेत्। तस्य योगायोगानां विज्ञानंभवति।
“लाघवं शिरसो योगे सुखस्वप्नप्रवोधनम्। विकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम्। कफप्रसेकःशिरसो गुरुतेन्द्रियबिभ्रमः। लक्षणं मूर्ध्न्यतिस्निग्धेरूक्षं तत्रावचारयेत्। अयोगे चैव वैगुण्यमिन्द्रियाणाञ्चरूक्षता। रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत्। चत्वारो विन्दवः षड्वा तथाष्टौ वा यथाबलम्। शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत्। नस्ये त्रीण्यु-पदिष्टानि लक्षणानि प्रयोगतः। शुद्धहीनातिसज्ञानिविशेषाच्छास्त्रचिन्तकैः। लाघवं शिरसः शुद्धिः स्रोतसांव्याधिनिर्जयः। चित्तेन्द्रियप्रसादश्च शिरसः शुद्धिल-क्षणम्। कण्डूपदेहौ गुरुता स्रोतसाङ्कफसंस्रवः। मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्त्तितम्। मस्तु-लुङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः। शून्यता शिरस-श्चापि मूर्ध्नि गाढविरेचिते। हीतातिशुद्धे शिरसिकफवातघ्नमाचरेत्। सम्यग्विशुद्धे शिरसि सर्पिर्नस्यंनिषेचयेत्। एकान्तरं द्व्यन्तरं वा सप्ताहं वा पुनः पुनः। एकविंशतिरात्रं वा यावद्वा साधु मन्यते। मारुतेनाभि-भूतस्य वात्यन्तं यस्य देहिनः। द्विकालञ्चापि दातव्यंनस्यं तस्य विजानता”। अवपीडस्तु शिरोविरेचनवदमिष्यन्दसर्पदष्टविसंज्ञेभ्यो दद्याच्छिरोविरेचनद्रव्याणाम-न्यतममवपीड्यावसिच्य चेतोविकारकृमिविषाभिपन्नानांचूर्णं विदध्यात्। शर्करेक्षुरसक्षीरघृतमांसरसानामन्यतसंक्षीणानां शोणितपित्ते च विदध्यात्।
“कृशदुर्बलभी-रूणां सुकुमारस्य योषिताम्। शृताः स्नेहाः शिरः-शुद्ध्यै कल्कस्तेभ्यो यथाहितः”। नस्यदाने परिहर्त्तव्योभुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणी पोतस्ने-होदकमद्यद्रवीऽजीर्णी दत्तवस्तिः क्रुद्धो गरार्त्तस्तृषितःशोकाभिभूतः श्रान्ता बालो वृद्धो वेगावरोधितः शिरः-स्नातुकामश्चेति। अनार्त्तवे चाभ्रे नस्यधूमौ परि-[Page4007-b+ 38] हरेत्। तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानातिप्रविलम्बितशिरस उच्छिङ्घतो विचलतोऽभ्यवहरतो वाप्रतिषिद्धप्रदानाच्च व्यापदा भवन्ति तृष्णोद्गारादयो दोष-निमित्ताः क्षयजाश्च। भवतश्चात्र
“नस्ये शिरोविरेकेच व्यापदो द्विविधाः स्मृताः। दोषोत्क्लेशनिमित्तांस्तुजयेच्छमनशोधनैः। अथ क्षयनिमित्तांस्तु यथास्वंवृंहणं हितम्”। प्रतिमर्शश्चतुर्द्दशसु कालेषूपादेयः। तद्यथा तल्पोत्थितेन प्रक्षालितदन्तेन गृहान्निर्गच्छताव्यायामव्यवायाध्वपरिश्रान्तेन मूत्रोच्चारकबलाञ्जनान्ते-ऽभुक्तवता छर्दितवता दिवास्वप्नोत्थितेन सायञ्चेति। तत्रतल्पोत्थितेनासेवितः

१ प्रतिमर्शो रात्रावुपचितनासास्रोतो-गतं मलमुपहन्ति मनःप्रसादञ्च करोति। प्रक्षालितदन्तेनासेवितो

२ दन्तानां दृढतां वदनसौगन्ध्यं चापादयति। गृहान्निर्गच्छतासेवितो

३ नासास्रोतसः क्लिन्नतया रजो-धूमो वा नाबाधते। व्यायाममैथुनाध्वपरिश्रान्तेनासेवि-तः

४ ।

५ ।

६ श्रममुपहन्ति। मूत्रोच्चारान्ते

७ ।

८ चासेवितोदृष्टेर्गुरुत्वमपनयति। कवलाञ्जनान्ते

९ ।

१० सेवितो दृष्टिं-प्रसादयति। अभुक्तवता सेवितः

११ स्रोतसां विशुद्धिंलघुतां चापादयति। वान्तेनासेवितः

१२ स्रोतोविलग्नंश्लेष्माणमपोह्य भक्तकाङ्क्षामापादयति। दिवास्वप्नोत्थि-तेनासेवितो

१३ निद्राशेषं गुरुत्वं मलं चापोह्य चित्तै-काग्र्यं जनयति। सायं चासेवितः

१४ सुखनिद्राप्रबोधंचेति।
“ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते। नस्येनिषिक्तं तं विद्यात्प्रतिमर्शं प्रमाणतः। नस्येन रोगाःशाम्यन्ति नराणामूर्द्ध्वजत्रुजाः। इन्द्रियाणां च वैमल्यंकुर्य्यादास्यं सुगन्धि च। हनुदन्तशिरोग्रीवात्रिकबाहू-रसां बलम्। बलीपवितखालित्यव्यङ्गानां चाप्यसम्भवः। तैलं

१ कफे समाते स्यात्केवलं पवने वसाम्

२ । दद्या-त्सर्पिः

३ सदा पित्ते मज्जानं

४ च समारुते। चतुर्विधस्यस्नेहस्य विधिरेव प्रकीर्त्तितः। श्लेष्मस्थानाविरोधित्वा-त्तेषु तैलं विधीयते”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नस्य¦ mfn. (-स्यः-स्या-स्यं) Nasal, relating or belonging to the nose. n. (-स्यं) A sternutatory, snuff. f. (-स्या) The nose. E. नसा the nose, यत् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नस्य [nasya], a. [नासिकायै हितं तत्र भवं वा यत् नसादेशः] Nasal.

स्यम् The hairs in the nose.

A sternutatory; कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति । धूपैरञ्जनयोगैश्च नस्यकर्मभि- रेव च ॥ Mb.12.14.34.

स्या The nose.

The string through the nose of an animal; नस्यागृहीतो$पि धुवन्विषाण- योर्युगम् Śi.12.1.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नस्य mfn. belonging to or being in the nose( अस्breath) S3Br.

नस्य n. the hairs in the -nnose VS.

नस्य n. a sternutatory , errhine MBh. R. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=नस्य&oldid=347589" इत्यस्माद् प्रतिप्राप्तम्