नस्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नस्यम्, क्ली, (नासिकायै हितम् । नासिका + यत् । नसादेशश्च ।) नासिकादेयचूर्णादि । तत्- पर्य्यायः । नस्तम् २ लावणम् ३ । इति रत्न- माला ॥ यथा, वैद्यकपरिभाषायाम् । “वमनं रेचनं नस्यं निरूहश्चानुवासनम् । ज्ञेयं पञ्चविधं कर्म्म मात्रा तस्य प्रवक्ष्यते ॥” नासाद्वारा देयौषधविशेषः । यथा, -- “प्रस्थे द्वे गण्डमालानां क्वाथयेत् द्रोणमम्भसाम् । चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥ काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् । पुनर्नवां गोक्षुरकं सैन्धवं त्र्युषणं वचा ॥ सरलं सुरदारुश्च बृहती कण्टकारिका । इति मध्यखण्डे विंशेऽध्याये शार्ङ्गधरेणोक्तम् ॥ “नस्यकर्म्म यथाकालं यो यथोक्तं निषेवते । न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते ॥ न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः । न च केशाः प्रलुट्यन्ते वर्द्धन्ते च विशेषतः । मन्यास्तम्भःशिरःशूलमर्द्दितं हनुसंग्रहः ॥ पीनसार्द्धावभेदौ च शिरःकम्पश्च शाम्यति । सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः ॥ नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम् ॥ मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् । सर्व्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम् ॥ न चास्य रोगाः सहसा प्रभवन्त्यूर्द्ध्वजत्रुजाः । जीर्य्यतश्चोत्तमाङ्गे च जरा न लभते बलम् ॥” इति चरके सूत्रस्थाने पञ्चमेऽध्याये ॥
