सामग्री पर जाएँ

नहुषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नहुषः, पुं, (नह्यते इति । नह + “पॄनहिकलिभ्य उषच् ।” उणां । ४ । ७५ । इति कर्त्तरि कर्म्मणि वा उषच् ।) नागभेदः । (यथा, महाभारते । १ । ३५ । ९ । “आप्तः करोटकश्चैव शङ्खो बालिशिखस्तथा । निष्ठानको हेमगुहो नहुषः पिङ्गलस्तथा ॥”) चन्द्रवंशीयराजभेदः । इति मेदिनी । षे, ३८ ॥ स च पुरूरवसो ज्येष्ठपुत्त्रस्यायुषः सुतः । इति पुराणम् ॥ (अयं हि अगस्त्यशापात् अजा- गरत्वमाप्तो वनमध्ये बहुकालं स्थितवान् ततः कदाचित् भीमं प्रगृह्य युधिष्ठिरात् मुक्तिमाप । एतद्विषरणं यथा, महाभारते । ३ । १८१ । ३३ -- ४५ । “अहं हि दिवि दिव्येन विमानेन चरन् पुरा । अभिमानेन मत्तः सन् किञ्चिन्नान्यदचिन्तयम् ॥ ब्रह्मर्षिदेवगन्धर्व्वयक्षराक्षसपन्नगाः । करान्मम प्रयच्छन्ति सर्व्वे त्रैलोक्यवासिनः ॥ चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीश्वर ! । तस्य तेजो हराम्याशु तद्धि दृष्टैर्बलं मम ॥ ब्रह्मर्षीणां सहस्रं हि उवाह शिविकां मम । स मामपनयो राजन् ! भ्रंशयामास वै श्रियः ॥ तत्र ह्यगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः । अगस्त्येन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥ ततस्तस्माद्विमानाग्रात् प्रच्युतश्च्युतभूषणः । प्रपतन् बुबुधेत्मानं व्यालीभूतमधोमुखम् ॥ अयाचन्तमहं विप्रं शापस्यान्तो भवेदिति । प्रमादात् संप्रमूढस्य भगवन् ! क्षन्तुमर्हसि ॥ ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः । युधिष्ठिरो धर्म्मराजः शापात्त्वां मोक्षयिष्यति ॥ अभिमानस्य घोरस्य पापस्य च नराधिप ! । फले क्षीणे महाराज ! फलं पुण्यमवाप्स्यसि ॥ ततो मे विस्मयो जातस्तद्दृष्ट्वा तषसो बलम् । ब्रह्म च ब्राह्मणत्वञ्च येन त्वाहमचूचुदम् ॥ सत्यं दमस्तपो दानमहिंसा धर्म्मनित्यता । साधकानि सदा पुंसां न जातिर्न कुलं नृप ! ॥ अरिष्ट एष ते भ्राता भीमसेनो महाबलः । स्वस्ति तेऽस्तु महाराज ! गमिष्यामि दिवं पुनः ॥ वैशम्पायन उवाच । इत्युक्त्वाजगरं देहं मुक्त्वा स नहुषो नृपः । दिव्य वपुः समास्थाय गतस्त्रिदिवमेव हि ॥” * ॥ (नह्यति सर्व्वाणि भूतानि माययेति । विष्णुः । यथा, महाभारते । १३ । १४९ । ४७ । “इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नहुषः [nahuṣḥ], N. of a king of the lunar race, son of Āyus and grandson of Purūravas and father of Yayāti. [He was a very wise and powerful king, and when Indra lay concealed under waters to expiate the sin of having killed the demon Vṛitra, a Brāhmaṇa, he was asked to occupy his seat. While there he thought of winning the love of Indrāṇī and caused the seven sages to convey him in a palanquin to her house. On his way he asked each of them to be quick using the words 'sarpa', 'sarpa', (move on, move on), when one of the sages (Agastya ?) cursed him to be a 'sarpa' (serpent). He fell down from the sky, and remained in that wretched state till he was relieved from it by Yudhiṣttod;hira.]

"https://sa.wiktionary.org/w/index.php?title=नहुषः&oldid=347654" इत्यस्माद् प्रतिप्राप्तम्