नाक्षत्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाक्षत्रम्, क्ली (नक्षत्रस्येदमिति । नक्षत्र + “तस्ये- दम् ।” ४ । ३ । १२० । इति अण् ।) नक्षत्र- सम्बन्धि । (यथा, सूर्य्यसिद्धान्ते । १४ । १५ । “भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते । नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्व्वान्तयोगतः ॥”) मासविशेषे, पुं । स च द्विविधः । सप्तविंशति- नक्षत्रात्मक एकः । यथा, विष्णुधर्म्मोत्तरे । “नक्षत्रसत्राण्ययनानि चेन्दो- र्मानेन कुर्य्याद्भगणात्मकेन ।” सप्तविंशतिनक्षत्रात्मकेन । “सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इह चोच्यते ।” सप्तविंशतिनक्षत्रावच्छिन्नो नाक्षत्रः । अस्य प्रयोजनं नक्षत्रसत्रादौ । जन्मनक्षत्रे शनिभौम- वारयोगे मनोदुःखदाने च । यथा, दीपि- कायाम् । “जन्मन्यर्क्षे यदि स्यातां वारौ भौमशनैश्चरौ । स मासः कल्मसो नाम मनोदुःखप्रदायकः ॥” द्वितीयः षष्टिदण्डात्मकनक्षत्रभोगकालरूपदिन- त्रिंशदात्मकः । यथा, सूर्य्यसिद्धान्ते । १ । १२ । “नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रचक्षते । तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा ॥” द्वितीयस्य प्रयोजनं आयुर्गणनायाम् । यथा, “आयुर्दाये स्मृतं प्राज्ञैर्नाक्षत्रं षष्टिनाडिकम् ॥” इति मलमासतत्त्वम् ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--measurement of time of ६२५ Kalas. वा. १००. २२३.
