नागः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागः, पुं, (नगे भवः । नग + अण् । यद्बा, दह- त्यस्मात् विषाग्निनेति । दह + “दहेर्गो लोपो- दश्च नः ।” उणां ५ । ६१ । गः । अन्तलोपः । दस्य नः । बाहुलकात् नकारस्य ना ।) पन्नगः । (यथा, विष्णुपुराणे । १ । ९ । ९६ । “जगृहुश्च विषं नागाः क्षीरोदाच्च समुत्थितम् ॥”) हस्ती । (यथा, रघुः । ४ । ८३ । “भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥”) क्रूरचारी । मेघः । नागकेशरः । पुन्नागः । नागदन्तकः । मुस्तकः । देहानिलप्रभेदः । “उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः ॥” इति शारदातिलकटीका ॥ उत्तरपदस्थिते श्रेष्ठः । इति मेदिनी । गे, १० ॥ (सीसकम् । अस्योत्पत्तिर्नामानि गुणाश्च । यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् । वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् ॥” “नागस्तु नागशततुल्यबलं ददाति व्याधिं विनाशयति जीवनमातनोति । वह्निं प्रदीपयति कामबलं करोति मृत्युञ्च नाशयति सन्ततसेवितः सः ॥ पाकेन हीनौ किलवङ्गनागौ कुष्ठानि गुल्मांश्च तथातिकष्टान् । कण्डूं प्रमेहानिलसादशोथः भगन्दरादीन् कुरुतः प्रयुक्तौ ॥”) ताम्बूली । देशभेदः । इति नानार्थटीकायां भरतः ॥ पर्व्वतविशेषः । (यथा, विष्णुपुराणे । २ । २ । २८ । “शङ्खकूटोऽथ ऋषभो हंषो नागस्तथापरः । कालाञ्जराद्याश्च तथा उत्तरे केसराचलाः ॥”) नगे गिरौ चन्दनादितरौ वा भवः । न गच्छ- यथा नान्यस्य भूर्लोके पाताले वापि पन्नग ! ॥ प्रणेतारौ भवन्तौ च सर्व्वस्यास्य भविष्यतः । पाताले देवलोके च भूर्लोके चैव पन्नगौ ॥ इत्युक्ता सा तदा देवी सर्व्वजिह्वा सरस्वती । जगामादर्शनं सद्यो नागस्य कमलेक्षणा ॥” इति मार्कण्डेयपुराणम् ॥ कालियवंशनागहनने दोषो यथा, -- “तद्वंशजातान् सर्पांश्च हन्ति यो मानवाधमः । ब्रह्महत्यासमं पापं भविता तस्य निश्चितम् ॥ मत्पादपद्मचिह्ने यः करोति दण्डताडनम् । द्बिगुणं ब्रह्महत्याया भविता तस्य किल्विषम् ॥ लक्ष्मीर्यास्यति तद्गेहात् शापं दत्त्वा सुदारुणम् । वंशायुर्यशसां हानिर्भविता तस्य निश्चितम् ॥ ध्रवं वर्षशतं कालसूत्रं यास्यति मद्भिया ॥” इति ब्रह्मवैवर्त्तपुराणे श्रीकृष्णजन्मखण्डे १९ अः ॥ वास्तुनागशुद्धिर्यथा, -- “वास्तुप्रमाणेन तु गात्रकेण वामेन शेते खलु नित्यकालम् । त्रिभिस्तु मासैः परिवृत्य पार्श्वं तं वास्तुनागं प्रवदन्ति सिद्धाः ॥ भाद्रादिके वासवदिक्शिराः स्या- न्मार्गादिकेषु त्रिषु याम्यमूर्द्धा । प्रत्यक्शिराः स्यात् खलु फाल्गुनादौ ज्यैष्टादिकौवेरशिराः स नागः ॥ मूर्द्ध्निं घाते भवेन्मृत्युः पृष्ठे स्यात् पुत्त्रभार्य्ययोः । जघनेऽर्थक्षयं विद्यात् सर्व्वसम्पत्तथोदरे ॥ एकं नागोडुसंशुद्धौ द्वे चेद्दक्षिणपश्चिमे । त्रिशालं पूर्ब्बतो हीनं कुर्य्याद्बा सौम्यवर्ज्जितम् ॥ केचिद्दक्षिणभागे तु वदन्त्येकं गृहं बुधाः । न कोणेषु गृहं कुर्य्यान्नाप्यन्त्ये नापि मध्यतः ॥ कोणे च धनहानिः स्यादन्ते रिपुभयं भवेत् । मध्ये च सर्व्वनाशः स्यात्तस्मादेतद्विवर्ज्जयेत् ॥” इति ज्योतिस्तत्त्वम् ॥
