सामग्री पर जाएँ

नागकेसर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागकेसरः, पुं, (नागस्येव केसरो यस्य ।) पुष्पवृक्ष- विशेषः । नागेश्वर इति भाषा ॥ तत्पर्य्यायः । चाम्पेयः २ केसरः ३ काञ्चनाह्वयः ४ । इत्यमरः । २ । ४ । ६५ ॥ केशरः ५ नागकेशसरः ६ । इति भरतः ॥ किञ्जल्कः ७ नागकिञ्जल्कः ८ नागीयः ९ काञ्चनम् १० सुवर्णम् ११ हेमकिञ्जल्कः १२ रुक्मम् १३ हेम १४ पिञ्जरः १५ फणिकेसरः १६ पन्नगकेसरः १७ । तत्पुष्पगुणाः । अल्पोष्ण- त्वम् । लघुत्वम् । तिक्तत्वम् । कफवस्तिवातामय- कण्ठशीर्षरोगनाशित्वञ्च । इति राजनिर्घण्टः ॥ तन्नामगुणाः । “नागपुष्पः स्मृतो नागः केसरो नागकेसरः । चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः ॥ नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम् । खुरकण्डुतृषास्वेदच्छर्द्दिहृल्लासनाशनम् ॥ दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ॥” त्रिजातकं नागकेशरसंयुक्तं चतुर्ज्जातकं भवति यथा, -- “त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धिस्त्रिजातकम् । नागकेशरसंयुक्तं चतुर्ज्जातकमुच्यते ॥ तद्द्बयं रोचकं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् । लघु पित्ताग्निकृद्वर्ण्यं कफवातविषापहम् ॥” इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागकेसर पुं।

चाम्पेयः

समानार्थक:चाम्पेय,केसर,नागकेसर,काञ्चनाह्वय

2।4।65।1।3

चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः। जया जयन्ती तर्कारी नादेयी वैजयन्तिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागकेसर¦ पु॰ नागस्येव केशरोऽस्य। स्वनामख्याते पुष्प-प्रधाने वृक्षभेदे अमरः (नागेश्वरचां पा) भावप्र॰ तन्ना-मगुणा उक्ता यथा
“नागपुष्पः स्मृतो नागः केसरोनामकेसरः। चाम्पेयो नागकिञ्जलकः कथितः काञ्चना[Page4011-a+ 38] हयः। नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम्। खरकण्डुतृषास्वेदच्छर्दिहृल्लासनाशनम्। दौर्गन्ध्यकुष्ठ-वीसर्पकफपित्तविषापहम्”। त्रिजातकं नागकेसरसंयुक्तंचतुर्जातकं भवति यथा
“त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धिस्त्रिजातकम्। नागकेसरसंयुक्तं चतुर्जातकमुच्यते। तद्द्वयं रोचकं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत्। लघु-पित्ताग्निकृद्वर्ण्यं कफवातविषापहम्” भावप्र॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागकेसर/ नाग--केसर m. Mesua Roxburghii Va1sant.

नागकेसर/ नाग--केसर n. its blossom Sus3r. ( -चूर्णकL. )

नागकेसर/ नाग--केसर n. a kind of steel L.

"https://sa.wiktionary.org/w/index.php?title=नागकेसर&oldid=347969" इत्यस्माद् प्रतिप्राप्तम्