सामग्री पर जाएँ

नागदन्ती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागदन्ती, स्त्री, (नागस्य गजस्य दन्त इव फलाद्याकारे यस्याः । ङीष् ।) कुम्भा । श्रीह- स्तिनी । इति मेदिनी । ते, २०१ ॥ हाति शुण्डा इति भाषा ॥ शेषस्य पर्य्यायः । विशल्या २ पर्व्वपुष्पी ३ विषौषधी ४ शुक्लपुष्पा ५ इभ- दन्ताह्वा ६ काण्डेरी ७ कामदूतिका ८ । इति रत्नमाला ॥ श्वेतपुष्पा ९ मधुपुष्पा १० विशो- धिनी ११ नागस्फोता १२ विशालाक्षी १३ नागच्छत्रा १४ विचक्षणा १५ सर्पपुष्पी १६ शुक्लपुष्पी १७ स्वादुका १८ शतदन्तिका १९ सितपुष्पी २० सर्पदन्ती २१ नागिनी २२ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । रूक्ष- त्वम् । वातकफगुल्मशूलोदरव्याधिकण्ठदोष- नाशित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागदन्ती¦ स्त्री नागस्य गजस्य दन्त इव फलाद्याकारे यस्याःङीष्। (हातिशुं डा) ख्याते

१ श्रीहस्तिन्याम्।

२ कुम्भाख्योषधौ च मेदि॰।
“अर्कालर्ककरञ्जद्वय नागदन्तीत्यादि” अर्कादिगणोक्तौ सुश्रुतः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागदन्ती/ नाग--दन्ती f. Tiaridium Indicum Sus3r.

नागदन्ती/ नाग--दन्ती f. Heliotropium Indicum L.

"https://sa.wiktionary.org/w/index.php?title=नागदन्ती&oldid=348085" इत्यस्माद् प्रतिप्राप्तम्