नागदमनी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागदमनी, स्त्री, (नागो दम्यतेऽनयेति । दम + ल्युट् + ङीप् ।) क्षुद्रक्षुपविशेषः । तत्पर्य्यायः । जम्बूः २ जाम्बवती ३ वृक्का ४ रक्तपुष्पा ५ जाम्बवी ६ मलघ्नी ७ दुर्द्धर्षा ८ दुःसहा ९ । अस्या गुणाः । तिक्तत्वम् । उष्णत्वम् । कटु- त्वम् । त्रिदोषोदराध्मानदोषनाशित्वम् । कोष्ठ- शोधनकारित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ तन्नामगुणाः । “विज्ञेया नागदमनी बला मोटा विषापहा । नागपुष्पी नागपत्रा महायोगेश्वरीति च ॥ बला मोटा कटुस्तिक्ता लघुः पित्तकफापहा । मूत्रकृच्छ्रव्रणान्रक्षो नाशयेज्जालगर्द्दभम् ॥ सर्व्वग्रहप्रशमनी निःशेषविषनाशिनी । जयं सर्व्वत्र कुरुते धनदा सुमतिप्रदा ॥” इति भावप्रकाशः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागदमनी¦ स्त्री नागो दम्यतेऽनया दम--ल्युट् ङीप्।
१ क्षुपभेदे
“विज्ञेया नागदमनी बलामोटा विषापहा। नागपुष्पी नागपत्रा महायोगेश्वरीति च। बलामोटा[Page4011-b+ 38] कटुस्तिक्ता मघुः पित्तकफापहा। मूत्रकृच्छ्रव्रणान्रक्षोनाशयेज्जालगर्दभम। सर्वग्रहप्रशमनी निःशेषविष-नाशिनी। जयं सर्वत्र कुरुते धनदा सुमतिप्रदा” भावप्र॰
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागदमनी/ नाग--दमनी f. -sserpent-spell , Artemisia Vulgaris , or Alpinia Nutans L.