नागपञ्चमी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागपञ्चमी, स्त्री, (नागप्रिया पञ्चमी । शाक- पार्थिवादिवत् समासः ।) आषाढी कृष्णा पञ्चमी । तत्र मनसापूजा कर्त्तव्या । यथा, -- “देवीपुराणे । ‘सुप्ते जनार्द्दने कृष्णे पञ्चम्यां भवनाङ्गने । पूजयेन्मनसादेवीं स्नुहीविटपसंस्थिताम् ॥ पद्मनाभे गते शय्यां देवैः सर्व्वैरनन्तरम् । पञ्चम्यामसिते पक्षे समुत्तिष्ठति पन्नगी ॥’ मनसादेवीं विषहरीम् । स्नुही सिजवृक्षः । देवैरिति सहार्थे तृतीया । ‘देवीं सम्पूज्य नत्वा च न सर्पभयमाप्नुयात् । पञ्चम्यां पूजयेन्नागाननन्ताद्यान् महोरगान् ॥ क्षीरं सर्पिस्तु नैवेद्यं देयं सर्पविषापहम् ॥’ मनसाध्यानम् । यथा, पद्मपुराणे । ‘देवीमम्बामहीनां शशधरवदनां चारुकान्तिं वदान्यां हंसारूढामुदारामरुणितवसनां सर्व्वदां सर्व्व- दैव । स्मेरास्यां मण्डिताङ्गीं कनकमणिगणैर्नागरत्नै- रनेकै- र्वन्देऽहं साष्टनागामुरुकुचयुगलां भोगिनीं कामरूपाम् ॥’ पुराणान्तरे । ‘अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः । कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः ॥ शेषः पद्मो महापद्मः कुलिकः शङ्खपालकः । वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः ॥ ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥’ गारुडेऽपि । ‘अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च । तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकम् ॥ कालीयं तक्षकञ्चापि पिङ्गलं मणिभद्रकम् । यजेत्तानसितान्नागान् दष्टमुक्तो दिवं व्रजेत् ॥’ अत्र च । ‘योऽसौ चानन्तरूपेण ब्रह्माण्डं सचराचरम् । पुष्पवधारयेन्मूर्ध्नि तस्मै नित्यं नमो नमः ॥’ इत्यनेन प्रणवपूर्ब्बेण मत्स्यपुराणोक्तेनानन्तं पूज- येत् ॥ रत्नाकरे । ‘पिचुमर्द्दस्य पत्राणि स्थापयेद्भवनोदरे । स्वयञ्चापि तदश्नीयात् ब्राह्मणांश्चैव भोजयेत् ॥’ पिचुमर्द्दस्य निम्बस्य ॥” इति तिथ्यादितत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागपञ्चमी¦ स्त्री नागपूजाङ्गं पञ्चमी। आषाढकृक्ष-पञ्चम्यां तत्र वागाङ्गानां पूजाविधानात् तस्यास्तथात्वम्। देवीपुराणे
“सुप्ते जनार्द्धने कृष्णे पञ्चम्यां भवनाङ्गने। पूजयेन् मनसादेवीं स्नुहीविटपसंस्थिताम्। पद्मनाभेगते शथ्यां देवैः सर्वैरनन्तरम्। पञ्चम्यामसिते पक्षेसमुत्तिष्ठिति पन्नगी”। मनसादेवीं विषहरीम्। स्नुहीसिजवृक्षः। देवैरिति सहार्थे तृतीया।
“देवीं संपूज्यनत्वा च न सर्पभयमाप्नुयात्। पञ्चम्यां पूजयेन्नागान-नन्ताद्यान् महोरगान्। क्षीरं सर्पिस्तु नैवेद्यं देयंसर्पविषापहम्”। गारुडे
“अनन्तं वासुकिं शङ्खंपद्मं कम्बलमेव च। तथा कर्कोटकं नागं धृतराष्ट्रञ्चशङ्खकम्। कालियं तक्षकञ्चापि पिङ्गलं मणिभद्रकम्। यजेत्तानसितान्नानान् दष्टमुक्तो दिवं व्रजेत्”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागपञ्चमी/ नाग--पञ्चमी f. a partic. festival sacred to the नागs (the 5th day in the light half of month श्रावणor in the dark -hhalf of -mmonth आषाढा) L. RTL. 323
