सामग्री पर जाएँ

नागपुरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागपुरम्, क्ली, (नागनामकं पुरम् । शाकपार्थि- वादिवत् समासः ।) देशविशेषः । तद्विवरणं यथा, -- “जटाजूटात् पपातोर्द्ध्वे मेरोस्तस्मात्ततोऽगमत् । देवैः परिवृता गङ्गा हेमकूटञ्च पर्व्वतम् ॥ मन्दरञ्चैव कैलासं हिमवन्तञ्च पर्व्वतम् । तामायान्तीन्तु रोधाय स्वलीलो नाम दानवः ॥ पार्व्वतं रूपमास्थाय वर्षाणान्तु शतैर्द्बिजाः । ततो भगीरथो राजाराधयामास कौशिकम् ॥ स तुष्टः प्रददौ नागं वाहनं तं भगीरथः । समारुह्यागमत्तत्र यत्र रुद्धा भगीरथी ॥ तेन नागेन तं दैत्यं संविदार्य्य स सङ्गतः । शतधा तं समाधाय मूर्द्धन्यैरावतो गजः ॥ महीतलं समापेदे स यावन्नागसाह्वयम् ॥ तस्मात् व्याघटनाद्बिप्रा अभून्नागपुरं वरम् ॥” इति वह्निपुराणे गङ्गावतरणनामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=नागपुरम्&oldid=143792" इत्यस्माद् प्रतिप्राप्तम्