सामग्री पर जाएँ

नागपुष्पः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागपुष्पः, पुं, (नागस्य हस्तिनो मदगन्धयुक्तं पुष्पं यस्य ।) पुन्नागवृक्षः । नागकेशरः । (यथा, महाभारते । १ । २०८ । ४० । “पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा ॥”) चम्पकः । इति मेदिनी । पे, २५ ॥ (पुन्नाग- पुष्पे तु क्ली । तत्र गुणा यथा, -- “नागपुष्पं कषायोष्णं रुक्षं लघ्वामपाचनम् । ज्वरकण्डूतृषास्वेदच्छर्द्दिहृल्लासनाशनम् ॥ दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=नागपुष्पः&oldid=143794" इत्यस्माद् प्रतिप्राप्तम्