नागबल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागबलः, पुं, (नागानामिव बलं यस्य ।) भीम- सेनः । इति त्रिकाण्डशेषः ॥ (अस्य नाग- बलाप्तिकथा । यथा, महाभारते । १ । १२८ । ६५ -- ७० । “एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत । यदि नागेन्द्र ! तुष्टोऽसि किमस्य धनसञ्चयैः ॥ रसं पिबेत् कुमारोऽयं त्वयि प्रीते महाबलः । बलं नागसहस्रस्य यस्मिन् कुण्डे प्रतिष्ठितम् ॥ यावत् पिबति बालोऽयं तावदस्मै प्रदीयताम् । एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥ ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः । प्राङ्मुखश्चोपविष्टः स रसं पिबति पाण्डवः ॥ एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः । एवमष्टौ स कुण्डानि ह्यपिबत् पाण्डुनन्दनः ॥ ततस्तु शयने दिव्ये नागदत्ते महाभुजः । अशेत भीमसेनस्तु यथासुखमरिन्दमः ॥” तथा च तत्रैव । १ । १२९ । १९ -- २१ । “ततोऽष्ठमे तु दिवसे प्रत्यबुध्यत पाण्डवः । तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली ॥ तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः । सान्त्वयामासुरव्यग्रा वचनञ्चेदमब्रुवन् ॥ यत्ते पीतो महाबाहो ! रसोऽयं वीर्य्यसंभृतः । तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यति ॥”) हस्तितुल्यबलवति, त्रि ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागबल¦ पु॰ नागानां हस्तिनामयुतस्य बलं यस्य।
१ भीमेत्रिका॰।
२ हस्तितुल्यवलयुक्ते त्रि॰। भीमस्य तथाबलप्राप्तिकथा भा॰ आ॰
१२
८ अ॰।
“यदि नागेन्द्र!तुष्टोऽसि किमस्य धनसञ्चयैः। रसम्पिबेत् कुमारो-ऽयं त्वयि प्रीते महाबलः। बलं नागसहस्रस्य त-स्मिन् कुण्डे प्रतिष्ठितम्। यावत् पिबति बालोऽयंतावदस्मै प्रदीयताम्। एवमस्त्विति तं नागं वासुकिःप्रत्यभाषत। ततो भीमस्तदा नागैः कृतस्वस्त्ययनःशुचिः। प्राङ्मुखश्चोपविष्टः स रसं पिवति पाण्डवः। [Page4012-b+ 38] एकोच्छासात्ततः कुण्डं पिवति स्म महाबलः। एव-मष्टौ स कुण्डानि ह्यपिबत् पाण्डुनन्दनः। ततस्तु श-यने दिव्ये नागदत्ते महाभुजः। अशेत भीमसेनस्तुयथासुखमरिन्दम!”
“ततोऽष्टमे तु दिवसे प्रत्यबुध्यतपाण्डवः। तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलोबली। तं दृष्ट्वा प्रत्यबुध्यन्त पाण्डवं ते भुजङ्गमाः। सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन्। यत्ते पीतोमहावाही! रसोऽयं वीर्यसम्भृतः। तस्मान्नागायुतबलोरणेऽधृष्यो भविष्यसि” भा॰ आ॰
१२
९ अ॰। नागस्येवबलं यस्याः। (गोरक्षचाकुलिया)
२ लताभेदे स्त्री
“ना-गबलाफलतिन्दुकमदनफलमधूकमञ्जिष्ठाः” वृ॰ सं॰
५७ अ॰
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागबल¦ m. (-लः) A name of BHI4MA. f. (-ला) A creeping plant, (Hedy- sarum lagopodioides.) E. नाग an elephant, and बल strong. (गोरक्ष चाकुलिया |)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागबल/ नाग--बल m. " having the strength of an -eelephant " , N. of भीमL.
नागबल/ नाग--बल n. a partic. high number Lalit.
