सामग्री पर जाएँ

नागबलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागबलः, पुं, (नागानामिव बलं यस्य ।) भीम- सेनः । इति त्रिकाण्डशेषः ॥ (अस्य नाग- बलाप्तिकथा । यथा, महाभारते । १ । १२८ । ६५ -- ७० । “एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत । यदि नागेन्द्र ! तुष्टोऽसि किमस्य धनसञ्चयैः ॥ रसं पिबेत् कुमारोऽयं त्वयि प्रीते महाबलः । बलं नागसहस्रस्य यस्मिन् कुण्डे प्रतिष्ठितम् ॥ यावत् पिबति बालोऽयं तावदस्मै प्रदीयताम् । एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥ ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः । प्राङ्मुखश्चोपविष्टः स रसं पिबति पाण्डवः ॥ एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः । एवमष्टौ स कुण्डानि ह्यपिबत् पाण्डुनन्दनः ॥ ततस्तु शयने दिव्ये नागदत्ते महाभुजः । अशेत भीमसेनस्तु यथासुखमरिन्दमः ॥” तथा च तत्रैव । १ । १२९ । १९ -- २१ । “ततोऽष्ठमे तु दिवसे प्रत्यबुध्यत पाण्डवः । तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली ॥ तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः । सान्त्वयामासुरव्यग्रा वचनञ्चेदमब्रुवन् ॥ यत्ते पीतो महाबाहो ! रसोऽयं वीर्य्यसंभृतः । तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यति ॥”) हस्तितुल्यबलवति, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=नागबलः&oldid=143803" इत्यस्माद् प्रतिप्राप्तम्