नागमातृ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागमाता, [ऋ] स्त्री, (नागानां हस्थिनां मातेव भूषकत्वात् ।) मनःशिला । इति हेम- चन्द्रः । ४ । १२६ ॥ (नागानां सर्पाणां माता ।) मनसादेवी । इति शब्दरत्नावली ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । ६७ । “नागेश्वरस्यानन्तस्य भगिनी नागपूजिता । नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥” सुरसा । इयं हि सागरोल्लङ्घनसमये हनुमतः परीक्षार्थं देवैरादिष्टा तस्य विघ्नमाचरितुं गता तेन वञ्चिता च । यथा, रामायणे । ६ । १ । १३९ । “ततो देवाः सगन्धर्व्वाः सिद्बाश्च परमर्षयः । अब्रुवन् सूर्य्यसङ्काशां सुरसां नागमातरम् ॥” यथा, च अध्यात्मरामायणे । ६ । १ । ८ -- २४ । “दृष्ट्वानिलसुतं देवा गच्छन्तं वायुवेगतः । परीक्षणार्थं सत्त्वस्य वानरस्येदमब्रुवन् ॥ गच्छत्येष महासत्त्वो वानरो वायुविक्रमः । लङ्कां प्रवेष्टुं शक्तो वा न वा जानीमहे बलम् ॥ एवं विचार्य्य नागानां मातरं सुरसाभिधाम् । अब्रवीद्देवतावृन्दः कौतूहलसमन्वितः ॥ गच्छ त्वं वानरेन्द्रस्य किञ्चिद्विघ्नं समाचर । ज्ञात्वा तस्य बलं बुद्धिं पुनरेहि त्वरान्विता ॥ इत्युक्ता सा ययौ शीघ्रं हनुमद्विघ्नकारणात् । आवृत्य मार्गं पुरतः स्थित्वा वानरमब्रवीत् ॥ एहि मे वदनं शीघ्रं प्रविशस्व महामते ! । देवैस्त्वं कल्पितो भक्ष्यः क्षुधासम्पीडितात्मनः ॥ तामाह हनुमान् मातरहं रामस्य शासनात् । गच्छामि जानकीं द्रष्टुं पुनरागम्य सत्वरः ॥ रामाय कुशलं तस्याः कथयित्वा त्वदाननम् । निवेक्ष्ये देहि मे मार्गं सुरसायै नमोऽस्तु ते ॥ इत्युक्ता पुनरेवाह सुरसा क्षुधितास्म्यहम् । प्रविश्य गच्छ मे वक्त्रं नोचेत् त्वां भक्षयाम्यहम् ॥ इत्युक्तो हनुमानाह मुखं शीघ्रं विदारय । प्रविश्य वदनं तेऽद्य गच्छामि त्वरयान्वितः ॥ इत्युक्ता योजनायामदेहो भूत्वा पुरः स्थितः । दृष्ट्वा हनुमतो रूपं सुरसा पञ्चयोजनम् । मुखं चकार हनुमान् द्बिगुणं रूपमादधत् ॥ ततश्चकार सुरसा योजनानाञ्च विंशतिम् । वक्त्रं चकार हनुमांस्त्रिंशद्योजनसम्मितम् ॥ ततश्चकार सुरसा पञ्चाशद्योजनायतम् । वक्त्वं तदा हनूमांस्तु बभूवाङ्गुष्ठसन्निभः ॥ प्रविश्य वदनं तस्याः पुनरेत्य पुरः स्थितः । प्रविष्टो निर्गतोऽहं ते वदनं देवि ! ते नमः ॥ एवं वदन्तं दृष्ट्वा सा हनुमन्तमथाब्रवीत् । गच्छ साधय रामस्य कार्य्यं बुद्धिमतां वर ! ॥ देवैः सम्प्रेषिताहं ते बलं जिज्ञासुभिः कपे ! । दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्ष्यसि गच्छ भो ॥” कद्रुः । इति महाभारतम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागमातृ¦ स्त्री नागस्य हस्तिनां मातेव भूषकत्वात्।
१ मनःशि-लायां शब्दर॰।
३ मनसादेव्याञ्च त्रिका॰ तस्याः स्वपुत्रद्वारानागरक्षकत्वात् तथात्वम्। जगत्कारुशब्दे
३५
०७ पृ॰दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागमातृ¦ f. (-ता)
1. A name of MANASA4, a goddess supposed to preside over snakes.
2. Red arsenic. E. नाग a snake, and मातृ a mother.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागमातृ/ नाग--मातृ f. " serpent-mother " , N. of सु-रसाR.
नागमातृ/ नाग--मातृ f. of the goddess मनसाL.
नागमातृ/ नाग--मातृ f. red arsenic L.
