नागम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागम्, क्ली, (नगे पर्व्वते भवम् । नग + अण् ।) रङ्गम् । सीसकम् । (अस्य पर्य्यायो यथा, -- “नागं महाबलं चीनं पिष्टं योगेष्टसीसकम् ॥” इति वैद्यकरत्नमालायाम् ॥) करणविशेषः । इति मेदिनी । गे, ९ ॥ नाग- करणजातफलम् । तथा, -- “नागोद्भवो नागधनाभिलाषी वक्रोक्तिजालो नितरां कुशीलः । क्रोधाग्निसन्तापितबन्धुवर्गो भर्गोपमः स्यात् किल रङ्गभूमौ ॥” इति कोष्ठीप्रदीपः ॥ रङ्गसीसकार्थे क्वचित् पुंलिङ्गोऽपि दृश्यते । पाक- हीनयोस्तयोर्दोषो यथा, -- “पाकहीनौ नागवङ्गौ कुष्ठगुल्मरुजाकरौ । मेहपाण्डुकरौ वातकफमृत्युकरौ पुनः ॥” तयोर्मारणं यथा, -- “अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् । मृत्पात्रे विद्रुते नागे लौहदर्व्या च चालयेत् ॥ यामैकेन भवेद्भस्म तत्तुल्याञ्च मनःशिलाम् । काञ्जिकेन द्वयं पिष्ट्वा पचेद्दृढपुटेन च ॥ स्वाङ्गशीतं पुनः पृष्ट्वा शिलया काञ्जिके न च ॥ पुनः पुटेच्छरावाभ्यामेवं षड्भिः पुटैर्मृतिः ॥” नागः सिन्दूरवर्णाभो म्रियते सर्व्वकार्य्यकृत् । सतिक्तमधुरो नागो मृतो भवति भस्मसात् ॥ आयुःकीर्त्तिं वीर्य्यवृद्धिं करोति सेवनात् सदा । रोगान् हन्ति मृतो नागो वङ्गवद्गुणकारकः ॥” इति सुखबोधः ॥
