नागयष्टि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागयष्टिः, स्त्री, (नागाधिष्ठिता यष्टिः ।) पुष्क- रिण्यादिस्थितकाष्ठविशेषः । रैकाठ इति भाषा ॥ तत्पर्य्यायः । नागाञ्चला २ । इति जटाधरः ॥ (यथा, हयशीर्षे । “वैणवं वारुणञ्चैव पुन्नागं नागकेशरम् । वकुलं चम्पकञ्चैव विल्वञ्चैवाथ खादिरम् ॥ एतेषामेव दारूणां नागयष्टिः प्रकीर्त्तिता । सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्यात् यथेप्सि- तम् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागयष्टि¦ स्त्री नागाधिष्ठानं यष्टिः। तडागादौ आरोप्येवारुणादिकाष्ठमये नागविशेषस्याधिष्ठानरूपे स्तम्भभेदे(रैकाठ) तद्विधानं तदघिष्ठातृनागनामज्ञापनं चजलाशयोत्सर्गे उक्तं यथा कापिले
“नागानामष्टनामानि लिखितानि पृथक् पृथक्। ततः कुम्भे चनिःक्षिप्य गायत्र्या च विलोड्य वै। उद्धरेत् पत्रिका-मेकां तत्र वैनागमीक्षयेत्। यस्य नामोद्धरेद्वत्स!स वै जलाधिपः स्मृतः। तं वै संपूज्य गन्धाद्यैर्दद्यात्क्षीरञ्च पायसम्”। पत्राण्याम्रस्य। योगीश्वरधृतवच-नात्।
“यथाऽष्टौ नामान्याम्रस्य पत्रे कृत्वा तु[Page4013-a+ 38] यत्नतः” तानि च गारुडे।
“अनन्तो वासुकिः पद्मोमहापद्मोऽथ तक्षकः। कुलीरः कर्कटः शङ्खो ह्यष्टौनागाः प्रकीर्त्तिताः” ततश्च अनन्तवासुकिकर्कोटकपद्म-महापद्मतक्षकशङ्खकुलीराणां नामान्याम्रपत्रे लिखित्वाकुम्भमध्ये निक्षिप्य गायत्र्या गोमूत्रेण वा
“छन्दसा-मथ्नामीति” रघुनाथधृतमन्त्रेणालोड्य यस्य नामोत्तिष्ठतितं यष्ट्यां समाबाह्यानेन नागेन अस्य जलाशयस्य रक्षाकर्त्तव्येति ब्राह्मणान् श्रावयेत्। हयशीर्षे
“वैल्वकंवारुणञ्चैव पुन्नागं नागकेसरम्। बकुलं चम्पकञ्चैवविल्वञ्चैवाथ खादिरम्। एतेषामेव दारुणां नागयष्टिःप्रकीर्त्तिता। सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्यात् यथे-प्सितम्”। तथा च वृहस्पतिः
“शूलचक्राङ्कितं कृत्वास्थापयित्वा जलाशये। द्वादशाङ्गुलमानन्तु वाप्यां चक्रंप्रकल्पयेत्। षोडशं पुष्करिण्यान्तु विंशतिस्तु सरो-वरे। सागरे हस्तमात्रन्तु लौहं ताम्रञ्च पैत्तलम्। चक्रञ्च विविधं प्रोक्तं कुर्य्यात्तेषां यथेप्सितम्”। स्वार्थे क तत्रार्थे त्रिका॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागयष्टि¦ f. (-ष्टिः) A piece of wood erected in a newly dug pond for showing the depth of water. E. नाग a snake, and यष्टि a staff; also नागयष्टिका |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागयष्टि/ नाग--यष्टि f. a post serving as water-mark L.