नागरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागरः, पुं, (नागरो विदग्धस्तद्बद्भावोऽस्त्यस्येति । अच् ।) देवरः । इति त्रिकाण्डशेषः ॥ नाग- रङ्गः । इति शब्दरत्नावली ॥ त्रि, (नगरे भवः । “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।) विदग्धः । (यथा, आर्य्यासप्तशत्याम् । ३२३ । “नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता सुतनुः । कस्तूरी न मृगोदरवासवशाद्बिस्रतामेति ॥”) नगरोद्भवः । इति मेदिनी । रे, १७२ ॥ (यथा, देवीभागवते । २ । ६ । ६६ । “नागरा धृतराष्ट्रस्य सर्व्वे तत्र समाययुः ॥” नगरहितश्च । यथा, महाभारते । २ । ५ । १२२ । “धनुर्व्वेदस्य सूत्रं वै यन्त्रसूत्रञ्च नागरम् ॥”)
