सामग्री पर जाएँ

नागरङ्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नागरङ्गः, पुं, (नागस्य नागसम्भूतस्य सिन्दूरस्येव रङ्गो यस्य ।) वृक्षविशेषः । नारङ्गीलेवुर गाछ इति भाषा ॥ इत्यमरः । २ । ४ । ३८ ॥ तत्- पर्य्यायः । नारङ्गः २ नार्य्यङ्गः ३ नागरः ४ ऐरावतः ५ नागरुकः ६ चक्राधिवासी ७ । इति शब्दरत्नावली ॥ तत्फलगुणाः । सुरभि- त्वम् । विपाके गुरुत्वम् । दुर्ज्जरत्वम् । अत्यम्ल- त्वम् । ईषन्मधुरत्वम् । वृष्यत्वम् । वातविना- शित्वञ्च । तत्केशरगुणः । रुच्यत्वम् । वातहर- त्वञ्च । इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=नागरङ्गः&oldid=143824" इत्यस्माद् प्रतिप्राप्तम्