नागरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नागरम्, क्ली, (नगरे भवम् । नगर + अण् ।) शुण्ठी । इत्यमरः । २ । ९ । ३८ ॥ (अस्य गुणा यथा, -- “नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत् । रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित् ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ यथा च गारुडे । १८६ अध्याये । “मुण्डीतकवचायुक्तं मरीचं नागरं तथा । चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् ॥”) मुस्ता । इति मेदिनी । रे, १७२ ॥ रतबन्धः । इति विश्वः ॥ (क्वचित् पुं ।) नागरदेशीयाक्षरञ्च ॥
