नाट्यम्

विकिशब्दकोशः तः
नाट्यम्

संस्कृतम्[सम्पाद्यताम्]

  • नाट्यं, नृत्यं, नटनं, नृत्तं, लास्यं, कौतुकं, तौर्यत्रिकं, नत्रितं, पनृत्तं, लास्यकम्।

नामम्[सम्पाद्यताम्]

  • नाट्यं नाम नृत्यम्।

नट् धातुः यत्

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्यम्, क्ली, (नटानां कार्य्यम् । नट + “छन्दोगौक्- थिकयाज्ञिकबह्वृचनटात् ञ्यः ।” ४ । ३ । १२९ । इति ञ्यः ।) नृत्यगीतवाद्यम् । तत्पर्य्यायः । तौर्य्यत्रिकम् २ । इत्यमरः । १ । ७ । १० ॥ (यथा, देवीभागवते । १ । ७ । ३० । “नाट्यं तनोषि सगुणा विविधप्रकारं नो वेत्ति कोऽपि तव कृत्यविधानयोगम् ॥”) नटानां समूहः । इति व्याकरणम् ॥ नाट्या- रम्भनक्षत्राणि यथा । अनुराधा १७ धनिष्ठा २३ पुष्यः ८ हस्ता १३ चित्रा १४ स्वाती १५ ज्येष्ठा १८ शतभिषा २४ रेवती २७ ॥ इति ज्योतिषम् ॥ * ॥ नाट्यफलं यथा, -- “देवर्षिक्षितिपालपूर्ब्बचरितान्यालोक्य धर्म्मादय- स्तत्स्तावाश्रितभूमिकाभिनयने स्यादर्थसिद्धिः परा । संगीतायुतचित्तवृत्तिभरणा वश्या भवन्त्यङ्गना ज्ञानं शङ्करसेवयेति कथितं नाट्यं चतुर्व्वर्ग- दम् ॥ यो यस्य दयितो भावः स तं नाट्ये निरीक्षते । अतः सर्व्वमनोहारि नाट्यं कस्य न रञ्जकम् ॥” नाट्योत्पत्तिर्यथा, -- “इहानुश्रूयते ब्रह्मा शक्रेणाभ्यर्थितः पुरा । चकाराकृष्य वेदेभ्यो नाट्यवेदन्तु पञ्चमम् ॥ उपवेदोऽथ वेदाश्च चत्वारः कथिताः स्मृतौ । तत्रोपवेदो गान्धर्व्वः शिवेनोक्तः स्वयम्भुवे ॥ तेनापि भरतायोक्तस्तेन मर्त्ये प्रचारितः । शिवाब्जयोनिभरतास्तस्मादस्य प्रयोजकाः ॥” इति सङ्गीतदामोदरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्यम् [nāṭyam], [नटस्येदं कृत्यं ष्यञ्]

Dancing.

Dramatic representation, gesticulation; acting; नाट्ये च दक्षा वयम् Ratn.1.6; नूनं नाट्ये भवति च चिरं नोर्वशी गर्वशीला Vikr. 18.29.

The science or art of dancing or acting, scenic art; नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् M.1.4.

The costume of an actor; न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा Bhāg.1.8.19. -ट्यः An actor. -Comp. -अङ्गानिn. (pl.) ten अङ्गs of नाट्य i. e. गेयपद, स्थितपाद्य, आसीन, पुष्पगण्डिका, प्रच्छेदक, त्रिगूढक, सैन्धव, द्विगूढक, उत्तमोत्तमक, उक्तप्रत्युक्त. -आगारम् a dancing room. -आचार्यः a dancing preceptor. -उक्तिः f. dramatic phraseology (as: स्वगत, प्रकाश, अपवाहित, जनान्तिक). -धर्मिका, -धर्मी the rules of dramatic representation. -प्रियः an epithet of Śiva. -रासकम् a kind of play consisting of one act; S. D. -वेदः the science of drama and dancing. -वेदी a stage, scene.

शाला a dancing-hall.

a theatre.

शास्त्रम् the dramatic science, dramaturgy.

a work on dramatic representation.

"https://sa.wiktionary.org/w/index.php?title=नाट्यम्&oldid=500600" इत्यस्माद् प्रतिप्राप्तम्