नाट्यालङ्कारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाट्यालङ्कारः, पुं, (नाट्यस्य अलङ्कारः ।) नाट्य- भूषणहेतुः । स तु अष्टषष्ठिप्रकारः । यथा, -- “सिद्धिर्म्मनोरथोऽभ्रेशो निरुक्तिश्च विशेषणम् । गुणाभिपात उद्दिष्टविचारप्राप्तिनीतयः ॥ अभिप्रायः परीहारो गर्हणानुनयौ तथा । अर्थापत्तिः प्रसिद्धिश्च दाक्षिण्यं प्रियभाषणम् ॥ अभिमानाख्यानगर्व्वा हर्षक्षोभोद्यमाश्रयाः । पश्चात्तापः स्पृहाक्रन्दौ कपटञ्च प्रवर्त्तनम् ॥ उत्तेजनञ्च दृष्टान्तः शोभोदाहरणे अपि । संशयोऽक्षरसंघातो विमलोक्तिः पदोच्चयः ॥ परीवादोऽनुक्तसिद्धिरक्षमाध्यवसायकौ । प्रोत्साहनं तुल्यतर्क उपपत्त्यनुतर्कणे ॥ निवेदनञ्च साहाय्यं याच्ञा पृच्छा विशोषणम् । अभिज्ञानञ्च स्वारूप्यं गुणकीर्त्तनमुक्तयः ॥ विपर्य्ययश्चातिशयो भूषाहेतुनिदर्शनम् । मानालेशश्च संक्षेपसमीहाश्रीविसर्पकाः ॥ उल्लेख उपदिष्टी चेत्यष्टषष्टिमिता अमी । अलङ्कारा मता नित्यं नाटकादिषु सूरिभिः ॥” इति सङ्गीतदामोदरः ॥ (साहित्यदर्पणमते त्रयस्त्रिंशत् नाट्यालङ्काराः । यथा, तत्रैव । ६ । २०० -- २३२ । “आशीराक्रन्दकपटाक्षमागर्वोद्यमाश्रयाः । उत्प्रासनं स्पृहाक्षोभपश्चात्तापोपपत्तयः ॥ आशंसाध्यवसायौ च विसर्पोल्लेखसङ्ज्ञितौ । उत्तेजनं परीवादो नीतिरर्थविशेषणम् ॥ प्रोत्साहनञ्च साहाय्यमभिमानोऽनुवर्त्तनम् । उत्कीर्त्तनं तथा याच्ञा परीहारो निवेदनम् ॥ प्रवर्त्तनाख्यानयुक्तिप्रहर्षाश्चोपदेशनम् । इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः ॥ आशीरिष्टजनाशंसाक्रन्दः प्रलपितं शुचा । कपटं मायया यत्र रूपमन्यद्विभाव्यते ॥ अक्षमा सा परिभवः स्वल्पोऽपि नाभिसह्यते । गर्वोऽवलेपजं वाक्यं कार्य्यस्यारम्भ उद्यमः ॥ ग्रहणं गुणवत्कार्य्यहेतोराश्रय उच्यते । उत्प्रासनन्तूपहासो योऽसाधौ साधुमानिनि ॥ आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा । अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ॥ मोहावधीरितार्थस्य पश्चात्तापः स एव तु । उपपत्तिर्मता हेतोरुपन्यासोऽर्थसिद्धये ॥ आशसनं स्यादाशंसा प्रतिज्ञाध्यवसायकः । विसर्पी यत्समारब्धं कर्म्मानिष्टफलप्रदम् ॥ कार्य्यग्रहणमुल्लेख उत्तेजनमितीष्यते । स्वकार्य्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक् ॥ र्भत्सना तु परीवादो नीतिः शास्त्रेण वर्त्तनम् ॥ उक्तस्यार्थस्य यत्तु स्यादुत्कीर्त्तनमनेकधा । उपालम्भस्वरूपेण तत् स्यादथविशेषणम् ॥ प्रोत्साहनं स्यादुत्साहगिरा कस्यापि योजनम् । साहाय्यं सङ्कटे यत् स्यात् सानुकूल्यं परस्य च ॥ अभिमानः स एव स्यात् प्रश्रयादनुवत्तनम् । अनुवृत्तिर्भूतकार्य्याख्यानमुत्कीर्त्तनं मतम् ॥ याच्ञा तु क्वापि याच्ञायाः स्वयं दूतमुखेन वा । परीहार इति प्रोक्तः कृतानुचितमार्ज्जनम् ॥ अवधीरितकर्त्तव्यकथनन्तु निवेदनम् । प्रवर्त्तनन्तु कार्य्यस्य यत् स्यात् साधुप्रवर्त्तनम् ॥ आख्यानं पूर्ब्बवृत्तोक्तिः युक्तिरर्थावधारणम् । प्रहर्षः प्रमदाधिक्यं शिक्षा स्यादुपदेशनम् ॥” एतेषामुदाहरणन्तु तत्रैव द्रष्टव्यम् ॥)
