नाट्योक्तिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाट्योक्तिः, स्त्री, (नाट्ये नृत्यगीतादौ या उक्तिः ।) नाटकविषयकवचः । नटानां कर्म्म नाट्यं तत्रोक्तिः नाट्योक्तिः । इति भरतः ॥ तद्यथा । आर्य्येति ब्राह्मणम् । क्षत्त्रियं महाराजेति । सखीं हलेति । नीचं हण्डे इति । चेटीं हञ्जे इति । स्वामिनमार्य्यपुत्त्रेति । राजश्यालं राष्ट्रि- येति । समानं हंहो इति । राजानं देवेति । सार्व्वभौमं भट्टेति । भगिनीपतिमावुत्तेति सम्बो- धयेत् । इति सङ्गीतदामोदरः ॥ गणिकायां अज्जुका । विद्वति भावः । जनके आवुकः । कुमारे युषराजभर्त्तृदारकौ ॥ राज्ञि देवभट्टा- रकौ । राजसुतायां भर्त्तृदारिका । कृताभिषे- कायां राज्ञ्यां देवी । इतरासु राज्ञीषु भट्टिनी । अवध्योक्तौ अब्रह्मण्यम् । मातरि अम्बा । बालायां वासूः । आर्य्ये मारिषः । ज्येष्ठा- भगिन्यां अन्तिका । निष्ठायां निर्व्वहणम् । इत्यमरः । १ । ७ । ११ -- १५ ॥ (यथाच साहित्य- दर्पणे । ६ । १५४ -- १६० । “अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् । सर्व्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम् ॥ रहस्यन्तु यदन्यस्य परावृत्य प्रकाश्यते । त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम् ॥ अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् । किं ब्रवीषीति यत् नाट्ये विना पात्रं प्रयुज्यते ॥ श्रुत्वेवानुक्तमप्यर्थं तत् स्यादाकाशभाषितम् ॥ दत्तां सिद्धाञ्च सेनाञ्च वेश्यानां नाम दर्शयेत् । दत्तप्रायाणि बणिजां चेटचेट्योस्तथा पुनः ॥ वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् ॥ नाम कार्य्यं नाटकस्य गर्भितार्थप्रकाशकम् । नायिकानायकाख्यानां संज्ञाप्रकरणादिषु ॥ नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् । प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते ॥ राजा स्वामीति देवेति भृत्यैर्भट्टेति चाधमैः । राजर्षिभिर्वयस्येति तथा विदूषकेण च ॥ राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च । स्वेच्छया नामभिर्षिप्रैर्षिप्र आर्य्येति चेतरैः ॥ वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विदूषकः । वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परम् ॥ सूत्रधारं वदेद्भाव इति वै पारिपार्श्विकः । सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः ॥ वयस्येत्युत्तमैर्हंहो मध्यैरार्य्येति चाग्रजः । भगवन्निति वक्तव्याः सर्व्वैर्देवर्षिलिङ्गिनः ॥ वदेद्राज्ञीञ्च चेटीञ्च भवतीति विदूषकः । आयुष्मन्रथिनं सूतो वृद्ध तातेति चेतरैः ॥ वत्स पुत्त्रक तातेति नाम्ना गोत्रेण वा सुतः । शिष्योऽनुजश्च वक्तव्योऽमात्य आर्य्येति चाधमैः ॥ विप्रैरयममात्येति सचिवेति च भण्यते । साधो इति तपस्वी च प्रशान्तश्चोच्यते बुधैः ॥ अगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते । उपाध्यायेति चाचार्य्यो महाराजेति भूपतिः ॥ स्वामीति युवराजस्तु कुमारो भर्त्तृदारकः । सौम्य भद्रमुखेत्येवमधमैस्तु कुमारकः ॥ वाच्या प्रकृतिभी राज्ञः कुमारी भर्त्तृदारिका ॥ पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैस्त्रियः । हलेति सदृशी प्रेष्या हञ्जे वेश्याऽञ्जका तथा ॥ कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरतीजनैः । आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ॥ शकादयश्च सम्भाष्या भद्रदत्तादिनामभिः । यस्य यत् कर्म्म शिल्पं वा विद्या वा जातिरेव वा ॥ तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचि- तम् ॥”)
