नाडिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडिका, स्त्री, (नाडी एव । स्वार्थे कन् ।) षट्- क्षणः । घडि इति भाषा । तत्पर्य्यायः । साधा- रिका २ घटिका ३ । इति हेमचन्द्रः । २ । ५१ ॥ घटिकाज्ञानोपायो यथा, -- “निमेषो मानुषो योऽयं मात्रामात्रप्रमाणकः । तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास्तथा कला ॥ नाडिका तु प्रमाणेन कला दश च पञ्च च । उन्मानेनाम्भसः सा तु पलान्यर्द्धत्रयोदश ॥ हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरङ्गुलैः । मागधेन प्रमाणेन यक्षप्रस्थस्तु संस्मृतः ॥” इति विष्णुपुराणम् ॥ “नैमित्तिकलयं प्रपञ्चयिष्यन्निमेषादिक्रमेण प्रथमां- शोक्तमेव कल्पप्रमाणमनुस्मारयति निमेष इति सप्तभिः । मात्रैव मात्रं प्रमाणं यस्य । एक- मात्रलघ्वक्षरोच्चारणकालसंमितो हि निमेषः । निमेषकालतुल्या हि मात्रा लघ्वक्षरञ्च यदिति ब्रह्माण्डोक्तेः । नाडिकाज्ञानोपायमाह । उन्मानेनेति सार्द्धेन । अम्भस उन्मानेन उन्मी- यते अनेनेत्युन्मानं पात्रम् । अर्द्धेन योगे त्रयो- दशसार्द्धद्वादशेत्यर्थः । उन्मानरूपेण घटितानि सार्द्धद्बादशपलानि सा नाडिका । सार्द्धद्वादश- पलताम्रनिर्म्मितपात्रेण सा नाडिका ज्ञातव्ये- त्यर्थः । किं प्रमाणं तत् पात्रं कार्य्यं तदाह मागधेन प्रमाणेन जलप्रस्थस्तु संस्मृत इति । सार्द्धद्बादशपलजलेन हि भागधदेशप्रस्थः पूर्य्यते । तत्प्रमाणं पात्रं कार्य्यमित्यर्थात् सिद्धम् । ननु तथापि पात्रेण कथं नाडिकाज्ञानं क्रियापरि- च्छेद्यत्वात् कालस्येत्याशङ्क्य क्रियासिद्धये ॥ प्रस्थादि विशिनष्टि हेमेति । माषः पञ्चगुञ्जः । हेम्नो माषैश्चतुर्भिश्चतुरङ्गुलेन शलाकारूपेण रचितैः कृतच्छिद्रा । एतदुक्तं भवति सार्द्ध- द्वादशपलताम्रमयं मागधप्रस्थसंमितमूर्द्धायतं पात्रं चतुर्म्माषचतुरङ्गुलहेमशलाकया कृताध- श्छिद्रं जले स्थापितं तेन छिद्रेण यावता कालेन पूर्य्यते तावान् कालो नाडिकेति । तथा च शुकः । द्वादशार्द्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः । स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतमिति ॥”) इति तट्टीकायां श्रीधरस्वामी ॥ (यथा, सूर्य्य- सिद्धान्ते । १ । ११ । “षड्भिः प्राणैर्विनाडी स्यात् तत् षष्ट्या नाडिका स्मृता ॥” “षड्भिरिति । षट्प्रमाणैरनुभिः पानीयपलं भवति पलानां षष्ट्या घटिकोक्ता कालतत्त्वज्ञैः ॥” इति तट्टीका ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडिका¦ स्त्री नाडी + स्वार्थे क। नाडीशब्दार्थे
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडिका¦ f. (-का) An Indian hour, or twenty-four minutes. E. नाडि the same, कन् pleonasm.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडिका [nāḍikā], 1 A tubular organ &c.; see नाडि.
A Ghaṭikā or 24 minutes; नाडिकाविच्छेदपटहः Māl.7; Bhāg. 3.11.8; K.13.7; दशनाडिकाः पूर्णाः । अतिक्रामति स्नानवेला । Abhiṣeka 1.
A hollow stalk in general.
A fistulous sore.
A ray of the sun.
A gong (on which the hours are struck).
A measure of length = 1/2 Daṇḍa.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडिका f. a hollow stalk Jyot.
नाडिका f. any tubular organ (as a vein or artery of the body) Ka1tyS3r. Sch.
नाडिका f. a measure of time = 1/2 मुहूर्तVar. Ma1lati1m. etc.
नाडिका f. a measure of length = 1/2 दण्डMa1rkP.
नाडिका f. v.l. for नालिकाKa1m. v , 51
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--definition of; फलकम्:F1: भा. III. ११. 8; Br. II. २१. १३०; III. 3. ४४.फलकम्:/F is १५ kala1s, ascertained by a measure of water. फलकम्:F2: Vi. VI. 3. 7.फलकम्:/F