नाडिन्धमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडिन्धमः, पुं, (नाडीं वंशनलीं धमतीति । ध्मा शब्दाग्निसंयोगयोः + “नाडीमुष्ट्योश्च ।” ३ । २ । ३० । इति खश् । “पाघ्राध्मास्थेति ।” ७ । ३ । ७८ । इति धमादेशः । “खित्यनव्ययस्य ।” ६ । ३ । ६६ । इति पूर्ब्बपदस्य ह्रस्वः ।) स्वर्ण- कारः । इत्यमरः । २ । १० । ८ ॥ (उच्चनीचा- धिरोहणात् मुहुर्मुहुर्निश्वासैर्नाडीं धमति उप- तापयतीति । श्वासकारके, त्रि । यथा, भट्टिः । ६ । ९४ । “सत्वमेजयसिंहाढ्यान् स्तनन्धवसमत्विषौ । कथं नाडिन्धमान् मार्गानागतौ विषमो- पलान् ॥”)
