नाडीजङ्घः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडीजङ्घः, पुं, (नाडीवत् जङ्घा यस्य ।) काकः । इति त्रिकाण्डशेषः ॥ मुनिविशेषः । यथा । “नाडीजङ्घः सुरगुरुमुनिर्व्वक्ति वृष्टेरकालौ मासावेतौ न शुभफलदौ पौषमाघौ न शेषान् ।” इति मलमासतत्त्वम् ॥ षकविशेषः । यथा, महाभारते । १२ । १६९ । १९ -- २० । “ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते । आजगाम स्वभवनं ब्रह्मलोकात् खगोत्तमः ॥ नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा । वकराजो महाप्राज्ञः कश्यपस्यात्मसम्भवः ॥”
