सामग्री पर जाएँ

नाडीनक्षत्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नाडीनक्षत्रम्, क्ली, (नाडीस्थितं नक्षत्रम् ।) नरस्य जन्मदशमषोडशाष्टादशत्रयोविंशपञ्च- विंशनक्षत्राणि । राज्ञः पूर्ब्बोक्तानि जाति- देशाभिषेकनक्षत्राणि च । यथा, -- “जन्माद्यं कर्म्म ततोऽपि दशमं साङ्घातिकं षोडशभम् । समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥ आद्यात्तु पञ्चविंशं मानसमेवं नरः षडृक्षः स्यात् । नवनक्षत्रो नृपतिः स्वजातिदेशाभिषेकर्क्षैः ॥” * ॥ जात्यृक्षन्तु । “पूर्ब्बात्रयं सानलमग्रजानां राज्ञान्तु पौष्णेन सहोत्तराणि । सपौष्णमित्रं पितृदैवतञ्च प्रजापतेर्भञ्च कृषीबलानाम् ॥ आदित्यहस्ताभिजिदश्विभानि तान्यन्त्यजातेः प्रभविष्णुतायाम् । देशभं देशनामर्क्षम् । नाडीनक्षत्राणि ॥ * ॥ ईहा देहार्थहानिः स्याज्जन्मर्क्ष उपतापिते । कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे ॥ मूर्त्तिद्रविणवन्धूनां हानिः साङ्घातिके तथा । सन्तप्ते सामुदायिके मित्रभृत्यार्थसङ्क्षयः । वैनाशिके विनाशः स्याद्देहद्रविणसम्पदाम् ॥ नाडीनक्षत्रफलम् ॥ * ॥ जातिभे कुलनाशः स्याद्बन्धनञ्चाभिषेकभे । देशभे देशभङ्गः स्यात् क्रूरैरेवं शुभैः शुभम् ॥ यस्मिन् राजाभिषेको भवति तदाभिषेचनिक- भम् । अ इ उ ए कृत्तिका । ओ व वि वु रोहिणीत्यादि देशभम् । सर्व्वेषां पीडायां दिनमेवमुपोषितोऽनलं जुहु- यात् । सावित्र्या क्षीरतरोः समिद्भिरमरद्बिजानुरतः ॥” इति ज्योतिस्तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=नाडीनक्षत्रम्&oldid=143943" इत्यस्माद् प्रतिप्राप्तम्