सामग्री पर जाएँ

नादेयम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नादेयम्, क्ली, (नद्या नदस्य वा इदं तत्र भवं वा । नदी वा नद + ढक् ।) सैन्धवलवणम् । इति रत्नमाला ॥ सौवीराञ्जनम् । इति राजनिर्घण्टः ॥ नदीनदसम्बन्धिजलादौ, त्रि । यथा, -- (“नादेयं नादेयं शरदि वसन्ते च नादेयम् । पानीयं पानीयं शरदि वसन्ते च पानीयम् ॥” इति वैद्यकराजवल्लभीयद्रव्यगुणे ॥) “नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम् ॥” अस्य गुणाः । यथा, भावप्रकाशे । “नादेयमुदकं रूक्षं वातलं लघु दीपनम् । अनभिष्यन्दि विशदं कटुकं कफपित्तनुत् ॥” (न आदेयमिति विग्रहे अग्राह्ये, त्रि । यथा, -- “सौगन्ध्यहीनं नादेयं पुष्पं कान्तमपि क्वचित् ॥”)

"https://sa.wiktionary.org/w/index.php?title=नादेयम्&oldid=143966" इत्यस्माद् प्रतिप्राप्तम्